________________
प्रमाणभकरणम् पाचकादिशब्दानां हि प्रवृत्तिनिमित्तं क्रिया अभिधेयास्तु कादयः
क चित्पुनर्यदेवास्य स्यात्प्रवृत्तिनिबन्धनम् । तस्यैव वाच्यता भावप्रत्ययान्तपदेष्विव ।। इत्येवं लेशतस्तावन्नाम्नां वृत्तिरुदाहृता ।
आख्यातानां तु वाच्यो ऽर्थः पुरस्ताचर्चयिष्यते ।। उपसर्गनिपातानां नाम्नामप्यविभागतः ।
प्रयोगप्रतिपत्तिभ्यामनेकार्थो ऽवगम्यते ।। उपसर्गः प्राचुर्येण क्रियायोगे प्रवर्तते, "उपसगोः क्रियायोगे" इति स्मरणात, के चित्त नामभिरपि सम्बन्ध्यन्ते यथा प्रगतं वयो यस्य स प्रवया इति । अन्ये धाताविचित्रार्थतामापादयन्तस्तद्विशेषणतया सम्बध्यन्ते, यथोक्तम् ,
उपसगवशाद्धातुरथोन्तरविलासकृत् ।
विहाराहारसंहारप्रहारपरिहारवत् ॥ ननु क चिदुपसगों धात्वर्थमेव बाधमानो दृश्यते यथा प्रस्थित इति गति. निवृत्तिवाची धातुः प्रत्युत गतिवचनतां नीतः प्रशब्देन, न चेदृशं विशेषणं भवितुमर्हति ।
येन स्वार्थाविरोधेन विशेष उपजन्यते । ___ विशेषणं तदेवेष्टं न तु यत्स्वार्थनाशनम् ।। इति ।
नैष दोषः, अर्थान्तराभिधानसामर्थ्यापादनमेव धाताविदधदुपसों विशेषणं भवितुर्हति, अनेकार्थाभिधानशक्तिश्च धातुरुपसर्गेण नियते ऽर्थे ऽवस्था. प्यते इति तस्य तद्विशेषणता।
उपसर्गाः किमर्थस्य वाचका द्योतका इति । प्रकृतानुपयोगित्वादिहैतन्न विचार्यते ॥ अन्वयव्यतिरेकाभ्यां तदर्थों ह्यवधार्यते ।
तदागमे तत्प्रतीतेस्तदभावे तद्ग्रहात् ।। ते तु किं वाचकाः सर्वे तदवगतिमुपदधति किं वा द्योतका इति किमनेन, एवं समुच्चयादिवाचिनां चादिनिपातानां 'वृक्षं प्रति द्योतते' इति कर्मप्रवचनीयानामर्थः प्रयोगप्रतिपत्तिभ्यामवधारणीय इत्यलं प्रसङ्गेन ।
अयमस्य पदस्यार्थ इति के चित् स तेन वा। यो ऽर्थः प्रतीयते यस्मात्स तस्यार्थ इति स्मृतिः ॥ स्पष्टामपि तु ये बुद्धिं निरूपयितुमक्षमाः। तां दर्शयितुमस्माभिर्दिङ्मात्रमुपदर्शितम् ॥ इति प्रमाणत्वसमर्थनाय शब्दस्य किं चिद्वयमुक्तवन्तः । पदाभिधेयार्थनिरूपणं तु शास्त्रान्तरे विस्तरतः प्रणीतम् ॥