________________
२९८
न्यायमअर्याम् येषामर्थेषु सामान्यं न सम्भवति तैः पुनः। उच्यते केवला व्यक्तिराकाशादिपदैरिव ॥
. वाच्यार्थवैविध्यम्एवं डित्यादिशब्दानां संज्ञात्वविदितात्मनाम् ।
अभिधेयस्य सामान्यशून्यत्वाद् व्यक्तिबाचिता ।। - अत एव हि द्रव्यशब्द इत्युच्यते।
ये पुनः कल्पितानेकभेदवृत्तिं प्रचक्षते । वाच्यं तत्रापि सामान्यमतीव ग्राहिकास्तु ते ॥ न हि डित्थत्वसामान्यं दृश्यते गगनत्ववत् ।
कल्पनायास्तु नो भूमिः का चिदस्ति विपश्चिताम् ।। गुणशब्दास्तु के चित् स्वजात्यवच्छिन्नं गुणमभिधाय तावत्येव विरमन्ति के चिद्गुणमभिधाय द्रव्यमाक्षिपन्ति तत्सामानाधिकरण्यप्रयोगदर्शनात् ।
गुणैकनियतास्तावद्गन्धरूपरसादयः । गन्धत्वादिव्यवच्छिन्नगन्धादिगुणवाचिनः । तेषां न द्रव्यपर्यन्ता वृत्तिः क चन दृश्यते ।
न गन्धः पद्म इत्यस्ति सामानाधिकरण्यधीः । न ह्येवं के चन वक्तारो भवन्ति ओदनं गन्धः आम्र रस इति, गुणं शु. क्लादिशब्दास्तु कथयन्तस्तदाश्रयं द्रव्यमायाक्षिपन्त्येव शुक्ले शुक्ल इति दर्शनात्, शुक्लादयो ऽपि शब्दा गुणपदोपबन्धसङ्कोचितशक्तयो भावप्रत्ययान्तवद्गुण. मात्राभिधाने एव पर्यवस्यन्ति शुक्लो गुण ऽश्वे शोल्क्यमश्वे इति सामानाधि करण्यप्रयोगदर्शनात्,
क्रियाशब्दाश्च द्विविधा भवन्ति के चित्कर्तरि कर्मणि करणे वा प्रयुज्यन्ते के चिद्भावमात्रवचना एव, कादिवाचिनस्तावन्निमित्तीकृत्य कां चन क्रियां तद्योगिनि द्रव्ये वतन्ते पाचकादयः।
यत्रापि तक्रियायोगस्तदानीं नोपलभ्यते । . तत्रापि योग्यतां दृष्ट्वा शब्दं तज्ज्ञाः प्रयजते ।।
न हि पांचको लावक इति प्रवृत्तक्रिय एवाच्यते अन्यदा ऽपि तथा तथा
व्यवहारात
परीभतस्वभावपरिहारतः ।
सिद्धरूपतया प्राहुः शब्दाः पाकादयः क्रियाम् ॥ - तदुक्तम् , कृदभिहितो भावो द्रव्यवद्भवति क्रियावच्चेति, न चैकान्तेन परिहृतसाध्यमानावस्थैव तैः क्रियोच्यते यत आह-क्रियावच्चेति ।
अन्यत्प्रवृत्तो शब्दस्य निमितमवगम्यते ।। अभिधेयं तु तस्यान्यदित्ययं प्रथमः क्रमः ॥ ...