________________
प्रमाणप्रकरणम्
२९७ निष्कृष्टस्वरूपमात्रनिष्ठामिति तदनुपपन्नम् , अनाक्षिप्तव्यक्तिकाया जातेः कदा. चिदप्यदर्शनात् । ____ अथ गोशब्दश्रवणवेलायां व्यक्तिसंस्पर्शवती जातिरवगम्यते भावप्रत्य. यान्ते तु गोशब्दे श्रते तच्छ्रन्या ऽसौ प्रतीयते इति, यद्येवमागतो ऽसि मदीयं पन्थानम् आश्रयवती चेजातिरुच्यते शब्देन जात्याश्रय उक्त एव भवति नान्यथा साश्रयवत्युक्ता स्यात् , तदाश्रयपरिहारेणाश्रयिसामान्यमा. त्रविवक्षायां त्वतलादयः प्रयुज्यन्ते, तथा चाहुः(१) “यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलादय" इति, गुणस्य हि भावाद् द्रव्ये शब्दनिवेशः इति तद्वद्वाच्यत्वपक्षसाक्षीण्यक्षराणि, सामानाधिकरण्यं च तत्रैवोपपद्यते इत्युक्तमेतत्,
व्यक्तिबोधे पदव्यापारसाधनम्तस्मात्
यथा विध्यन्तपर्यन्तो वाक्यव्यापार इष्यते ।
तथैव व्यक्तिपर्यन्तः पदव्यापार इष्यताम् ।। अनवरतव्यापारे शब्दे तवगमात् ।
येनान्विताभिधानं च पदानामभ्युपेयते । सुतरां तेन वक्तव्या व्यक्त्यन्ता पदतो मतिः ॥ न हि व्यक्त्यनपेक्षाणां जातीनामितरेतरम् । अन्वयो ऽनन्वितानां च नाभिधानमिति स्थितिः ।। गङ्गायां घोष इत्यादौ यथा सामीप्यलक्षण। नैवं गौः शुक्ल इत्यादौ गम्यते व्यक्तिलक्षणा ॥ प्रयोगप्रतिपत्तिभ्यां वृद्धभ्यो ऽध्यवसीयते ।
तस्माद् गवादिशब्दानां तद्वानर्थ इति स्थितम् ।। तदिदमुक्तं सूत्रकृता "व्यक्त्याकृतिजातयस्तु पदार्थ" इति, तुशब्दो विशेष. णार्थः किं विशिष्यते गुणप्रधानभावस्य नियमेन शब्दार्थत्वम् , स्थिते ऽपि तद्वतो वाच्यत्वे क चित्प्रयोगे जातेः प्राधान्यं व्यक्तरङ्गभावः यथा गौर्न पदा स्पष्टव्यति सर्वगवीषु प्रतिषेधे। गम्यते, क चियक्तेः प्राधान्यं जातरङ्गभावः यथा गां मुश्च गां बधानेति नियतां कां चियक्तिमुद्दिश्य प्रयुज्यते, क चिदाकृतः प्राधान्यं व्यक्तरङ्गभावो जाति स्त्येव यथा पिष्टकमय्यो गावः क्रियन्तामिति स. निवेशचिकीर्षया प्रयाग इति सर्वगतत्वे ऽपि जातेने मृद्गवादो वृत्तिरित्यक्तम, तदेवं गवाश्वादिशब्दानां तावत्तद्वानर्थ इति सिद्धम् ।
(१) महाभाष्ये अ० ६ पा० १ आ०२ सू० ११९ । ३८न्याल