________________
१९३
न्यायमञ्जर्याम्
उच्यते, नेदन्तानिर्दिश्यमानशानलेयादिविशेषस्तद्वान् न च सर्वत्रैलोक्यवर्ती व्यक्तित्रातस्तद्वान् किं तु सामान्याश्रयः कश्चिदनुल्लिखितशाबलेयादिविशेषस्तद्वानित्युच्यते, सामान्याश्रयत्वाच्च नानन्त्यव्यभिचारयोस्तत्रावसरः, न च विशेषणमनभिधाय विशेष्यमभिदधाति शब्द इत्यभ्युपगच्छामः येनैनमतिभारेण पीड्येमहि, सामान्याश्रयमात्रे सङ्केतग्रहणात् तावन्मात्रं वदतः शब्दस्य कतरो ऽतिभारः एवं तद्वतार्नास्वातन्त्रत्वादित्यादि दूषणं परिहृतं भवति, किं च
प्रत्यक्षं न हि निष्कृष्टजात्यंशपरिवेष्टितम | तद्गोचरप्रवृत्तश्च शब्दस्तं कथयेत्कथम् || तस्मात्प्रत्यक्षविषये प्रवर्त्तमानं तत्समानविषयमेव भवितुमर्हति पदं न सामान्यमात्रनिष्ठम् ।
युगपन्ननु संवित्तिर्विशेषणविशेष्ययोः । प्रत्यक्षे ऽपि न दृष्टैव न च युष्माभिरिष्यते ॥ कार्यकारणभावो हि तद्धियोर्भवतां मते । तस्माद्विशेषणे जातौ पूर्वमिन्द्रियजा मतिः ॥ पदादपि तदा यत्तु सम्बन्धज्ञप्त्यपेक्षिणः । तत्रैव बुद्धिरित्येव न व्यक्तेरपि वाच्यता ||
उच्यते, प्रत्यक्षे तावद् द्वयोरपि विशेषणविशेष्ययोरिन्द्रियविषयत्वं सामा येsपि संयुक्तसमवायादिन्द्रियं प्रवर्त्तमानं विशेषणवद्विशेष्यमपि विषयीकरोति, न हि सामान्यं प्रत्यक्षं विशेषो ऽनुमेय इति व्यवहारः, एवं गुणमात्रप्राहिणीन्द्रिये गुणिनानुमेयत्वं स्यान्न चैवमस्ति, तस्माद्विशेष्यपर्यन्तं प्रत्यक्षं तथा पदमपि तत्तुल्यविषयं न तु सामान्यमात्रनिष्ठमिति युक्तम् ।
"सामान्यांशापोद्धृत्य पदं सर्व प्रवर्त्तते" इति तत्केवल व्यक्तच भिधाने सति आनन्त्यव्यभिचारभयादुच्यते तद्वदभिधाने तु तद्भयं नास्तीति न शुद्धजात्यभिधातृतया शब्दः संकोचनीयः, न तु सर्वात्मना प्रत्यक्ष तुल्यविषयः शब्दः प्रतिपत्तिसाम्यप्रसङ्गात् न च शब्दान्द्रियाच्च तुल्ये प्रतिपत्ती भवतः, तदुक्तम् " अन्यथैवाग्निसम्बन्धाद् दाहं दग्धो ऽभिमन्यते " इत्यादि ।
"
• उच्यते, पूर्वमेवैतत्परिहृतं सकलविशेषप्रहणाग्रहणाभ्यां प्रतिपत्तिविशेषसिद्धेः धर्म्यभिप्रायेण च संप्लवस्योक्तत्वान्नैतावता सामान्यमात्रनिष्ठः शब्देो भवति ।
अपि च निष्कृष्ट सामान्यांशवचनत्वे पदस्येष्यमाणे गोशब्दाद्गोत्वशब्दाच तुल्ये प्रतिपत्ती स्याताम्, गौः शुक्ल इतिवञ्च गोत्वं शुक्लमिति बुद्धि: स्यात्, चातुर्वण्र्यादिवच स्वार्थे एव गोशब्दाद्भावप्रत्ययस्त्वतलादिः स्यात् ।
अथ मन्येथाः आक्षिप्त व्यक्तिकां जाति गोशब्दो वक्ति भावप्रत्ययान्तस्तु