________________
२९५
प्रयुक्तं पदमंशेन कं चिदर्थमभिदधाति ततो ऽर्थान्तरं लक्षयति तद्गतत्वेन पुनः लिङ्गसंख्याद्यभिधत्ते इति न प्रातीतिको ऽयं क्रमः । साक्षात्तदन्वितत्वेन कथ्यमानं त्वसङ्गतम् । तद्भवेदग्निना सिवेदित्यादिविधिसन्निभम् || ननु पुंसीव सामान्ये कथं नैव भविष्यति । व्यक्त्यन्तरितमित्येष युक्तो वैभक्तिको ऽन्वयः ॥
प्रमाणमकरणम्
प्रातिपदिकार्थसामान्य गतत्वेनैव विभक्त्या स्वार्थो ऽभिधीयते न लक्षितव्यक्तिवृत्तित्वेन यतेो ऽभिधानवैषम्यं स्यात्स च विभक्तययों जातौ साक्षादसम्भवन्कक्ष्यान्तरितो भविष्यति, नैतत्, आत्मनो ज्ञानप्रयत्नादियोगित्वेन कारकत्वोपपत्तेः जातेस्तु साक्षान्न मनागपि व्यापारलेशसंस्पर्श इति स्वतो दुर्लभं तस्याः कारकत्वम्, अतः कथं तत्र विभक्त्यर्थान्वयः । यदन्वितं च संख्यादि तत्स्थस्वेन न कथ्यते । कथ्यते यद्गतत्वेन न तत्तेन समन्वितम् ॥ न च व्यवहितव्यक्तिप्रतीतिं मन्यते जनः । नान्यथानुपपत्त्यापि क्रमसम्वेदनं कचित् ॥ जनयन्तीं च पश्यामो व्यक्ति जात्यनुरञ्जिताम् । संख्यादियोगिनी चेति सा वै धत्ते पदार्थताम् ॥ जातेः कार्यान्वयः श्येनचितमित्यभ्यधायि यत् । तत्र संस्थाननिर्देशान्न जातेः का चिदङ्गता ॥ श्येनव्यतया चेत्सादृश्यमिष्टकाकूटस्य नास्ति व्यक्तयन्तरेण व्यभिचारात् नितराममूर्त्तया जात्या सादृश्यमाकाशेनेव न तस्यावकल्पते इति स्पर्धेदाहरणमेतत् ।
जातिविशिष्टवाच्यत्वोपपादनम् -
अन्येषु तु प्रयोगेषु गां देहीत्येवमादिषु । तद्वतो ऽर्थक्रियायोगात्तस्यैवाहुः पदार्थताम् ॥ पदं तद्वन्तमेवार्थमाञ्जस्येनाभिजल्पति । न च व्यवहिता बुद्धिर्न च भारस्य गौरवम् ॥ सामानाधिकरण्यादिव्यवहारो ऽपि मुख्यया । वृत्त्योपपद्यमानः सन्नान्यथा योजयिष्यते || तस्मात्तद्वानेव पदार्थः,
ननु को ऽयं तद्वान्नाम तदस्यास्तीति तद्वानिति विशेष एव सामान्यवानुच्यते विशेषवाच्यत्वे चानन्त्यव्यभिचारौ तदवस्थौ सामान्यं तु शब्देनानुच्यमानं नोपलक्ष्यमाणं भवति उभयाभिधाने च शब्दस्यातिभार इत्युक्तम्,