________________
न्यायमञ्जयम्
यत्वमूर्त्तत्वाज्जातेः न क्रियाङ्गत्वमिति, नैष दोष:, श्रमूर्त्तानामपि गुणकर्मणां क्रियासाधनतयोपपत्तेः अरुणया क्रीणाति अभिक्रामन्जुहोतीति व्यक्त्याक्षेपद्वारेण चालम्भनविशसनप्रोक्षणादिप्रयोगचोदनासु साधनत्वं जातेरुपपत्स्यते । लक्षित व्यक्तिसाध्यं तु तत्साध्यं कार्यमिष्यते । यथा भूतेन्द्रियोत्पाद्यमात्मकर्तृकमुच्यते ॥
आत्मा तावत्सर्वकर्मस्वधिकृतः कर्त्ता च स चामूर्त्तत्वाद् देहेन्द्रियद्वारे प्रौदुम्बरीसंमार्जनाज्यावेक्षणादीनि कार्याणि निर्वर्त्तयन् कर्त्ता तेषु भवति, एवं जातिरपि व्यक्तिवर्त्मना तन्निर्वर्त्तयन्ती साधनतां लप्स्यते ।
अतश्च जातिरेवाङ्गमिति मीमांसका जगुः । तस्याश्चेदं क्रियाङ्गत्वमन्यद्वारकमात्मवत् ॥
एवं षड् देया इत्यन्यं तद्वर्णमालभेतेति च तद्द्वारकमेव योज्यम्, एतेन - पचयापचयसंघाताद्यपि वक्तव्यम्, सम्बन्धमहणादिकार्य च जातिपक्षे एव सूपपादम्, आनन्त्यव्यभिचारादिचोद्यानवकाशात् ।
यत्पुनरभ्यधायि प्रत्यक्षविषये पदं वर्त्तते न च प्रत्यक्षस्य सामान्यमात्रं त्रिषय इति परिहृतं तद्वार्तिककृता प्रत्यक्षस्य हि चित्रात्मकं वस्तु विषयः । न च तत्तादृशं किं चिच्छब्दः शक्नोति भाषितुम् । सामान्यांशानपोद्धृत्य पदं सर्व प्रवर्त्तते इति (१) ॥
न हि नानाधर्मनिचयरचितचित्राकार वस्तुसमर्पण निपुणमेकं किमपि पदमुपपद्यते न च तत्र सम्बन्धग्रहणं सुकरमिति सामान्यांशनिष्ठमेव पदं युक्त तस्माज्जातिरेव शब्दार्थ इति ।
जातिमात्रवाच्यत्वाक्षेप:
अत्राभिधीयते, न जाति: पदस्याथों भवितुमर्हति पदं हि विभक्त्यन्तो वर्णसमुदायो न प्रातिपदिकमात्रम्, तत्र च प्रकृतिप्रत्ययावितरेतरान्वितमर्थमभिधत्त इति स्थितम्, द्वितीयादिश्च विभक्तिः प्रातिपदिकादुच्चरन्ती प्रातिपदि कार्थगतत्वेन स्वार्थमाचष्टे युगपच त्रितयं विभक्त्यर्थः कारकं लिङ्गं संख्या चन चैतत् त्रितयं प्रातिपदिकार्थे जातावन्वेति न जातिः कारकं न च जातेः स्त्रीपुंनपुंसकविभागः न चास्या द्वित्वादियोग इति ।
व्यक्तिलक्षणया सर्वमुपपत्स्यते इत्युक्तम्, न च युक्तमुक्तम्, सकृ
QUIC
( १ ) श्लोकवार्तिके आकृतिवार्तिके श्लेा० ६३ अयमर्थः यद्येकमेव वस्त्वनेकाकार तत्तर्हि ताशमेव शब्दोऽभिदधत् सामान्यमात्राभिधायी न स्यादत आह-न चेखि । कीदृशं तु भाषतेऽत आइ सामान्यांशानिति ।