________________
৪ালসল
ति वक्तमतिभारप्रसङ्गात , न च व्यक्त्यवगतौ गतिरन्या नास्ति यत इयन्तं शब्दे भारमारोपयेम, न हि वयं व्यक्तिप्रतीति भवन्तीमपहनुमहे नापि भवन्ती: जातिप्रतीतिमपहनुमहे उभयप्रतीतेः प्रत्यात्मवेदनीयत्वात् , उभयत्र चाभिधात्री शक्तिरतिभारः शब्दस्यान्यतरप्रतीत्या चान्यतरप्रतीतिसिद्धेः, तत्र गोशब्दः किं जातो वर्तमानः व्यक्तिमाहो स्विद्व्यक्तौ वर्तमानो जातिमाक्षिपत्विति विचारणायां जातेविशेषणत्वात्पूर्वतरं प्रतिपत्तिरिति सैन शब्दार्थो भवितुमर्हति तस्यां च शब्दादवगतायां तत एव व्यक्त्यवगमः सेत्स्यतीति नोभयत्र शाब्दो व्यापारः।
ननु दण्डिशब्दादिव विशेषणं च जाति विशेष्यां च व्यक्तिं गोशब्दादेव प्रतिपत्स्यामहे को ऽस्यातिभारः, विषमो ऽयं दृष्टान्त तत्र हि प्रकृ. तिप्रत्ययविभागेन द्वयप्रतीतिरवकल्पते दण्डशब्दः प्रकृतिविशेषणमभिवदति मत्वर्थीयप्रत्ययश्च विशेष्यमिति, गोशब्दे तु नैष न्यायः सम्भवति, तत्र न वि. शेषणे दण्डिशब्दो वर्त्तते न विशेष्ये दण्डशब्दः, इह तु गोशब्द एक एव स च विशेषणे विशेष्ये वा वर्त्तत, विशेष्ये वर्तमानो विशेषणे प्रमाणान्तरमपेक्षते विशेषणे तु वर्तमानस्तदवगमाय विशेष्यमाक्षिपतीति न कश्चिद्दोषः, तदिदमा. स्मप्रत्यक्षं यच्छब्दे उच्चरिते व्यक्तिरवगम्यते स किं शब्दादुत जातेरिति विवेको न प्रत्यक्षः स युक्त्या ऽवगम्यते, शब्दस्य द्वयाभिधाने यत्नगौरवाद्विरम्य व्यापारस्य चासंवेदनात् , अन्तरेणापि च शब्द जात्यवगमाद्वयक्तिप्रतीतिदर्शनाज जातित एवैषा व्यक्तिप्रतीति: जातिप्रतीतिश्च शब्दादिति निश्चीयते, भवद्भिरपि च विशेषणज्ञानपूर्विका विशेष्यावगतिरङ्गीकृतैव, यथा ऽऽह कणवतः(१), "समवायिनः श्वैत्याच्छव्यत्यबुद्धश्च श्वेते बुद्धिस्त कार्यकारणभूते" इति ।
यत्पुनरभिहितम् आलम्भनविशसनप्रोक्षणादिक्रियायोगाद्वयक्तिः शब्दार्थ इति, तदप्यनैकान्तिकम् , जातावपि क चिक्रियायोगदर्शनात् श्येनचितं चि. न्वीतेति,
नन्वत्रापि व्यक्तरेव कार्याङ्गता नामू या जातेः, मैवम्, न ह्यत्र श्येनः साधनत्वेन निर्दिश्यत पशुना यजेतेतिवत्, कर्मण्यग्न्याख्यायामिति त्व. भियुक्तस्मरणाचयननिर्वर्त्यः श्येन इति शब्दार्थों ऽवगम्यते, न च श्येनव्यक्ति. श्वयनेन निर्वतयितुं पार्यते, अग्न्याख्यायामिति स्मर्यते न हीष्टकानिचयेन पतत्री अभिनिवत्तते तदाकारस्त्वमिरभिनिर्वयत इत्यत्र जातेः क्रियाङ्गत्वं न व्यक्तः ।
ननु व्यक्त्या सादृश्यं सम्पादयिष्यते न शक्यते सम्पादयितुं व्यक्तचन्तरवैसादृश्यस्यापि सम्भवाद्यो धेकया व्यक्त्या सदृशः सो ऽन्यविसहशो भवति,
(१) वैशेषिकसूत्रम् भ० ८ मा-१ सू० ९ ।