________________
२९२
भ्यायमअयामें
ल्पेतान्यस्यापनीयमानस्य पशुद्रव्यस्य सैव जातिः तत्रान्यत्वसंबन्धो व्यक्तेरवकल्पते न जातेरित्यतो ऽपि व्यक्तिः शब्दार्थः ।
चयापचयसंघातस्वस्वामित्वादिकल्पनाः । यान्ति व्यक्त्यभिधेयत्वपक्षे झडिति संगतिम् ।। न व्यक्तिलक्षणाद्वारमियत्कार्य च युज्यते। वक्रः पन्था न गन्तव्यः प्रष्ठे वहति वर्मनि ।। उपलक्षणमाश्रित्य जातिसंबन्धवेदनम् ।। प्रसेत्स्यतीति नानन्त्यव्यभिचारकृतो ज्वरः ।।
प्रत्यक्षविषये वृत्तिः पदस्येष्टा परैरपि । निष्कृष्टं न च सामान्यमात्र प्रत्यक्षगोचरः ।। व्यक्तरेव पदार्थत्वं तस्मादभ्युपगम्यताम् । तथा च बुद्धिस्तत्रैव अतशब्दस्य जायते ।।
जातिमात्रस्य वाच्यत्वनिरूपणम्- - तदेतज्जैमिनीयैर्न क्षम्यते, तथा हि व्यक्तिमात्रं वा शब्दार्थ इष्यते विशिष्टा वा व्यक्तिः न तावद्यक्तिमानं न हि यस्यां कस्यां चिद्य तो गोशब्दं वक्तारः प्रयुञ्जते, न च यां कां चिद्यक्ति गोशब्दाच्छोतारः प्रतिपद्यन्ते, अथ गोत्वविशिष्टव्यक्तिः शब्दार्थ इत्युच्यते गोत्वमेव हि तर्हि गोशब्दार्थो न व्यक्तिः, कथम् , श्रूयतां यदि हि व्यक्तिः शब्दार्थो भवेद् व्यक्त्यन्तरे न प्रयुज्येत अथ व्यक्त्यन्तरे ऽपि प्रयुज्यते सर्वव्यक्तिसाधारणस्तस्यार्थो न व्यक्तिः ।
ननु व्यक्त्यन्तरमपि व्यक्तिरेव सो ऽयं व्यक्तो गोशब्दः प्रयुक्तो न सामान्ये, मैवम् , व्यक्तो चेद् गोशब्दः प्रयुज्यते कर्कादिव्यक्तावपि प्रयुज्येत, यत्र प्रयोगोऽस्य दृष्टस्तत्र प्रयुज्यते इति चेद् अध जतायां गवि मा प्रयोजि, न हि. तत्र प्रयोगो ऽस्य दृष्ट इति तस्माद्दर्शनमकारणम् , प्रतिव्यक्ति तस्यासम्भवात् , व्यक्तौ च शब्दार्थे इयं वा गौरियं वा गौरिति प्रतिपत्तिः स्यान त्वियमपि गौरिति भवति चैवं प्रतीतिर्न चायमविद्यमाननियन्तृक एव यदृच्छाशब्दप्रयोगः प्रव. त्तते इति नियामकमस्य चिन्त्यम् , गोवमेव नियामकमिति चेदायुष्मन्साधु. बुध्यसे किं तु तद्गोत्वमवगतमनवगतं वेति वक्तमहसि नानवगतमतिप्रसङ्गादवगतं चेत्कुतस्तदद्वगच्छामः शब्दादन्यतो वा, नान्यतः प्रमाणान्तरासन्निधा. नात् , शब्दात्तर्हि शब्दः प्रथमतरंगोत्वे वर्तितुमर्हति नागृहोतविशेषणा वि. शिष्टे बुद्धिरिति न्यायात् ।
ननु जाति विशेषणत्वेन व्यक्ति च विशेष्यत्वेन वच्यति गोशब्दः न शक्नो