________________
प्रमाणप्रकरणम्
थै ततः प्रतिपद्यन्ते स तस्यार्थः, तत्र यदि गोशब्दः केसरादिमति न प्रयुज्यते सास्नादिमति च प्रयुज्यते तदसाधारणसन्निवेशविषय एवावगम्यते, प्रत्यक्ष. विषये गोरित्यादि पदं प्रयुज्जते प्रत्यक्षं चाकृतिविषयमश्वपिण्डसन्निवेशाद्विलक्षणो हि गोपिण्डसन्निवेश इन्द्रियेण प्रतीयते तत्कृतमेव वस्तुवितरेतरवैलक्षण्यम् , अत: प्रत्यक्षविषये पदं प्रवर्त्तमानमाकृतावेव वर्तितुमर्हति, प्रेषणादिक्रियायोगश्च व्यक्तिद्वारक आकृतेभविष्यतीति तदुक्तम्
तदयुक्त प्रतिव्यक्ति भिन्न संस्थानदर्शनात् ।
आनन्त्यव्यभिचाराभ्यां संबन्धज्ञप्त्यसम्भवात् ।। न नियतस्य शाबलेयसनिवेशस्य गोशब्दो वाचकः तदभावे ऽपि बाहुलेयसन्निवेशदर्शनात , न च त्रैलोक्यान्तर्गतसकलगोपिण्डसन्निवेशवचनत्वमनुगतं शक्यम् आनन्त्यात्ततश्च नाकृतिः शब्दार्थः तस्यां क्रियाऽनुपपत्तेः न हि प्रेषणादिक्रियासाधनं सन्निवेशो ऽपि तु व्यक्तिः ।
न च गामानयेत्युक्तः सत्यामपि तथाकृतौ ।
चित्रमृत्स्नामयीं कश्चिद्गामानयति बुद्धिमान् ।। ननु जातिवाच्यत्वपक्षे ऽपि गोत्वजातेः सर्वगतत्वात् किमिति मृगवानयनं नानुष्ठीयते, उच्यते हस्ती किं नानीयते सर्वगतत्वाज्जाते: अथ सर्वत्रा. स्तित्वे ऽपि व्यकव्यक्तिनियमेनापह्नयते हन्त तर्हि सास्नादिमत्प्राणी गोत्व. जातेरभिव्यजको न मृद्गव इति नातिप्रसङ्गः, सन्निवेशस्य च तत्र भोवात्तद्वाच्यत्ववादिनः नैनमतिप्रसङ्गमतिकामन्ति, किं चाकृतिवचनत्वे गोशब्द. स्य शुक्लादिगुणवाचिभिः पदान्तरैः सामानाधिकरण्यं न प्राप्नोति न हि शुक्लादिगुणा आकृतिवृत्तयः तत्सामानाधिकरण्यादिबलवत्तया वरं व्यक्तिः शब्दार्थ इज्यताम् ।
व्यक्ती तावत्क्रियायोगो जातौ संबन्धसौष्ठवम् । नाकृतौ द्वयमप्येतदिति तद्वाच्यता कुतः ।। जातिव्यक्त्योरतः कार्या वाच्यत्वे संप्रधारणा ।
तत्र व्यक्त्यभिधेयत्ववादिभिस्तावदुच्यते ॥ प्रयोगचोदनासामन्जस्यायक्तिः शब्दार्थः, आलम्भनविशसनप्रोक्षणादिचो. दना जातावसंगता भवन्ति न हि जातिरालभ्यते विशस्यते प्रोक्ष्यते वा, अपि. च षड़ देया द्वादश देया चतुर्विंशतिर्देया इति न जातिः षडादिसंख्याभियु. ज्यते ऽपि तु व्यक्तिः तस्मात्सैव शब्दार्थः, अपि च यदि पशुरुपाकृतः पलाये. तान्यं तद्वर्ण तद्वयसमालभेतेति यदि जातिः शब्दार्थः स्यादन्यस्यालम्भो नावक