________________
न्यायमञ्जर्याम्
गवादिशब्दार्थविचारः -
अर्थप्राप्तिरतः सदर्थविषयज्ञानप्रबन्धोद्गता साक्षादेव मणिप्रभामणिमतिन्यायेन किं कथ्यते । प्रामाण्ये सविकल्पकस्य कथिते बाह्यार्थसिद्धिः स्थिता तद्व्यक्त्याकृति जातिवाच्यकलने तावत्प्रवर्त्तामहे || एवं सिद्धे बाह्ये निरस्तेषु तदपहारिषु तथागततस्करेषु अधुना विचार्यते गोशब्दः किमाकृतेर्वाचकः अथ जातेरिति ॥
जात्याकृत्योर्भेदाभेदाचिन्ता -
२२०
तत्राकृतिपदेनेह संस्थानमभिधीयते ।
सूत्रे पृथगुपादान्न जातिजैमिनीयवत् ॥
जैमिनिर्हि' आकृतिस्तु क्रियार्थत्वा (१) दिव्याकृति जातिमुपदिशति भाष्यकारो ऽपि सास्नादिविशिष्टाकृतिरिति ( २ ) ब्रुवाणः तथैव व्यवहरति वार्त्तिककृता हि तद्वचाख्यातम् ।
जातिमेवाकृति प्राहुर्व्यक्तिराक्रियते यया ।
सामान्यं तच्च पिण्डानामेकबुद्धिनिबन्धनमिति (३) ॥
इह तु व्यक्त्याकृतिजातयस्तु पदार्थ ( ४ ) इति सूत्रकारो जातेः पृथगाकतिवचो वदति संस्थानमेवाकृतिं मन्यते, लोको ऽपि श्रवयवसन्निवेशात्मिकामाकृतिं व्यपदिशति यत्राकृतिस्तत्र गुणा वसन्तीति, तस्मादवयवसन्निवेश एवाकृतिरुच्यते ।
तस्याश्च शब्दार्थतोपपद्यते न वेति परीक्षाईत्वमस्त्येव न जैमिनीयवदुपेचितुं सा युक्तेति, तद्व्यक्त्याकृतिजातिसन्निधौ प्रयोगाद्गोशब्दस्य को ऽर्थ इति विचार्यते,
व्यक्तिमात्रस्य पदवाच्यत्वनिरूपणम्
तत्राकृतिवादिनस्तावदाहुः प्रयोग प्रतिपत्तिभ्यां किल शब्दार्थनिश्चयः, वृद्धाः स्वार्थेन व्यवहरन्तो यस्मिन्नर्थे गोशब्द प्रयुञ्जते श्रोतारश्च यम(१) जैमिनिसूत्रम् अ० १ पा० ३ ० ३३
(२) "सास्नादिविशिटाकृतिरिति ब्रूमः" इति शावर भाष्यम् अ० १ पा०
१ सु० ५ ।
( ३ ) इलोकवार्तिके आकृतिवार्तिके ३ । आक्रियते — निरूप्यते, तथा च जातिरेवाकृतिर्नान्येति नाकृतिशब्दवादे शब्दानित्यत्वप्रसङ्ग इति भावः ।
( ४ ) गौतमसूत्रम् अ० २ श्र० २ सू० ६८ ।