________________
२८९
प्रमाणप्रकरणम सत्येषां पौनरुक्त्यादानर्थक्यमिति चेद नानर्थक्यम , प्रमाणवर्गे निपतन्तः काममनर्थका भवन्तु अर्थान्तरं वावलम्बन्तां व्यावृत्तिं त्ववलम्बमाना अंशत प्रा. लम्बन्ते अंशतो नेति न श्रद्दध्महे ।
सजातीयविजातीयव्यावृत्त्यानं च भिन्नता ।
यतो ऽन्यतरसंस्पर्शो विकल्पे न प्रकल्पते ।। सजातीयविजातीयव्यावृत्तिविमर्श तु दर्शनवदसाधारणग्राहिण एव विक. ल्पाः स्युरिति सामान्यनिबन्धनसम्बन्धप्रहणादिव्यवहाराभावाच्छब्दानुमाने प्रलयं प्रतिपद्येयाताम , व्यावृत्तिरपि बाद्या चेत्तदवस्था कौमारिलदूषणाशनिः,
आन्तरत्वे तु न तया विकल्पोपरागः कर्तुं शक्यते, नान्तन बहिरिति तु भणि. तिभङ्गीमात्रम, तत्तादृशं किंचिद् न किंचिद्वा, न किंचिच्चेन तेन विकल्पानामनुर. जनस्योपपादयितुमशक्यत्वात् , अत्यन्तमसतश्च शशविषाणादेव्यवहारविषयत्वाभावात् , असतख्यातिनिरसननीतिमेवात्रोत्तरं करिष्यामः किं चिच्चेन्नूनम. न्तर्बहिर्वा तेन भवितव्यमेव, अतः कुमारिलादिश्रदूषणापनिनीषया यो ऽयमुत्प्रे. क्षितः पन्था नूतनः सो ऽपि सङ्कटः, तस्माद् यथाऽध्यवसायमेवमिति युक्तम् , बाह्ये च वस्तुनि शब्दान्तरोपनीयमानभावाभावसम्बन्धावपिन न युज्यते, सर्वस्य गोरित्यादिशब्दजनितस्य ज्ञानस्यास्तित्वाद्यनपेक्ष्य सामान्यमात्रविषयत्वादा. काक्षानिराकरणायास्ति नास्तीति पदान्तरं प्रयुज्यमानं सम्बध्यते, नियतरू. पितानिश्चितनिजरूपे वस्तुनि वस्त्वन्तरस्य व्यवच्छेदबन्धनमिष्यते एव घटो घद इव न पट इति नैतावता तदपोद्य एव प्रत्ययो भवति इत्यलमतिक्षोदेन ॥
जातिसाधनोपसंहार:--
बाह्यार्थविषय एवं व्यवहारो घटत इत्ययं कस्मात् । दृश्यविकल्पावावेकीकृत्य प्रवर्तते पुरुषः ॥ एकीकारश्च कीदृग्यदि पृथगमतिस्तहि मूछोंद्यवस्था. साम्ये तत्र प्रवृत्तिः कथमथ किमपि स्यात् प्रवृत्त्यर्थरूपम् । तद् दृश्यं चेदपोहव्यवहृतिरफला ऽथ द्वितीयं चकास्ति खेनाकारण तस्मिन्सति सुनिपतिते चेष्टते कः सचेताः ॥ स्फुरति यदि विकल्प्यं दृश्यरूपेण कामं स भवति विपरीतप्रत्ययो नाविवेकः । न वितथमतिबीजं विद्यते यत्र किंचि.
न च रविकरनीरज्ञप्तिवदाधिका धीः ।। ३७न्या०