________________
न्यायमञ्जर्याम्
विकल्पानामपोहविषयकत्वनिराकरणम्
यदपि विकल्पनां शब्दानां चान्यापोहविषयत्वसिद्धये प्रलपितम् एकस्यार्थ - स्वभावस्येत्यादि तदपि यत्किचित् ।
२८८
सर्वात्मना हि दृष्टोऽर्थः पुनर्न हि न दृश्यते । प्रदर्शितं हि प्रामाण्यं गृहीतग्राहिणामपि ॥ क्षणभङ्गे निरस्ते च देशकालादिभेदतः । गृहीतस्यापि भावस्य ग्रहणं न न युज्यते ॥ अपि चास्मन्मते भिन्नैर्धर्मैर्युक्तस्य धर्मिणः । धर्मो sea aa चित्कश्चित्प्रत्ययेन ग्रहीष्यते ॥ विचित्र सहकार्यादिशक्तिभेदश्च धर्मिणः । नानोपाध्युपकाराङ्गशक्त्यभिन्नात्मता कुतः ॥
यदि च नाम निर्विकल्पकेन सर्वात्मना परिच्छिन्न वस्तु पुनः परिच्छि न्दन्ति विकल्पान्तराणि वैफल्यमश्नुवीरन्किमेतावता तेषामप्रतीयमानार्थग्रा हिता कल्पयितुं शक्यते, न हि विरतपिपासस्य हिमकरपटलमफलमिति तदेव रजतमिति कल्पयितुं पार्यताम्, तस्माद् दुराशामात्रमेतत् इत्थं चान्यापोहनिरात्मनि बाह्ये विकल्पानां शब्दानां च विषये इष्यमाणे भट्टकुमारिलेापन्यस्तदुस्तरदूषणानामावरणकरणं न कि चित्पश्यामः,
9
यदपि तदूषणापनिनीषया विकल्पप्रतिबिम्बकमारोपिताकारमा व्यावृत्तिच्छायोपरक्तं किमपि परिकल्पितं तदपि न व्यवहारपदवीमवतरितुमुत्सहते । विकल्पो नाम बोधात्मा स च स्वच्छ ः स्वभावतः । नासा वितर संपर्काते कलुषतामियात् ॥ नूनमभ्युपगन्तव्यं किं चिदस्योपरव्जकम् । आन्तरं वासनारूपं बाह्य वा विषयात्मकम् ॥ यत्पुनर्विद्यते नान्तर्न बहिस्तेन रज्यते । विज्ञानमिति मायैषा सहती धूर्तनिर्मिता ॥ विषया एव बुद्धीनामाञ्जस्येन परञ्जकाः । वासना विषयज्ञानजन्यत्वान्न तथोदिताः ॥
तस्मात्तत्र देशान्तरादौ वसता केन चिदर्थेन बुद्धयो रज्यन्ताम् एकान्तासता तु केनचिदारोपितेन तदुपरञ्जनमघटमानं मनोरथप्रायम्, न चैकान्तासनाकार आरोपयितुमपि शक्यते, अपि च दर्शनपृष्ठभाविना विकल्पास्तद्व्यापारकारिणो व्यावृत्तं स्रष्टुमसमर्था व्यावृत्तिमात्रमवलम्बन्ते इति यदुच्यते तत्र • दृश्य सजातीयविजातीयव्यावृत्तत्वादुभये ऽपि व्यावृत्तिमेव स्पृशेयुः, उभयावमर्षे