________________
प्रमाणप्रकरणम्
२८७
ननु वृत्तिविनापि सामान्यान्तरेण सामान्येषु दृश्यते एवेति को ऽत्र विन. म्भः, न चाशेषेण पञ्चाशद्भवितुमर्हति यदि हि सेनावनादिप्रत्ययाः करितुरग. धवखदिरादिव्यतिरिक्तमानपेक्ष्य जापवाना मिथ्या भवन्ति किमेतावता घटादिप्रत्ययैरपि मिथ्या भवितव्यबाधकसद्भावतिबन्धनं हि वैतथ्यं प्रत्ययानाम्, तत्र सत्तादौ समान्यान्तरविरहान्मिथ्या प्रत्ययाः उपाधिना केन चित्प्रव. तन्ते न वेवं गवादाविति यत्किं चिदेतत् , यदुक्तम्
तस्मादेकस्य भिन्नषु या वृत्तिस्तन्निबन्धनः ।
सामान्यशब्दः सत्तादावेकधीकरणेन वेति(१) ।। नन्विहाप्येकार्थनियाकारित्वोपाधिनिबन्धन एकाकारप्रत्ययः सेत्स्यतीत्यु. क्तम , सत्यमुक्तमयुक्तं तु एकार्थक्रियाकारित्वस्यैवासिद्धेः ।। __यत्तूक्तम् 'एकप्रत्यवमर्शम्य हेतुत्वाद्धीरभेदिनी' इति तइसाम्प्रतम् , प्रत्यवम शस्याप्येकत्वानुपपत्तेः न हि बहुभिर्दर्शनैरेको विकल्पः सम्भूय साध्यते ऽपि तु नाना दर्शनानन्तरं तत्सामर्थ्यलब्धजन्मानो विकल्पा अपि तु भेदेनैवोल्लसन्ति न च तेषां किमपि कार्यान्तरमस्ति येन ते एकतामधिगच्छेयुः, केन च विकल्पाना. मेकत्वं गृह्यते न दर्शनेन तस्य दृश्यविषयत्वात, न विकल्पान्तरेण सर्वविकल्पितानामारोपितार्थपर्यवसितत्वेन स्वाकारविषयत्वेन वा परस्परभेदाभेदपरिच्छेदसाम
•सम्भवात, (अथ) या विकलोल्लिख्यमानाकारभेदानवगमाद्विकल्पानाम: क्यं यादृशमेव एकशावलेयादिस्वलज्ञगदर्शनाल्तरभुवाऽपि विकल्पेनोल्लिखित आकारो गौरिति तादशमे । गोपिण्डान्तरदर्शनान्तरजन्मना ऽपीति विषयाभे. दात्तदैक्यमुच्यते, तदुल्लिख्यमाने ऽपि विषयभेदो हि न प्रतिभासते इत्यत एष विकल्पो भिन्नान्यपि दर्शनानि मिश्रीकरोति दर्शनापारूढस्य भेदस्याग्रहणादिति,
तदेतदपि न हृदयंगममभिधीयते,विकल्पास्तावद्विज्ञानक्षणस्वभावत्वादन्योन्यं भिन्ना एव भवन्ति, यस्तु विकल्लोलिखित आकारो ऽनुपलभ्यमानभेदः सेभ्यो व्यतिरिक्तोऽव्यतिरिक्तो वा, व्यतिरिक्तश्चेत्स्यात् सामान्यमेवेदं नामान्तरेणोक्तं भवति, अवास्तवत्वकृतो विशेष इति चेन्नावास्तवत्वे युक्त्यभावात् , अव्यतिरिक्तश्चेत्स आकारस्तहि विकल्पस्वरूपवद्भिद्यते एवेति कथं तदैक्यं कथं वा तदैक्ये भिन्नानामपि दर्शनानां मिश्रीकरणमयकल्लते, अपि च रे मूढ सामान्यानभ्युपगमे कुतस्त्य एकाकारविकल्पोत्पाद इति पर्यनुयुक्तेन त्वया कार्येक्याद् विकस्पैक्यादेवेत्युक्त भवति, कथं चैवमनुन्मतो ब्रूयात्तस्मादेकप्रत्यवमर्शस्य हेतुत्वा. द्धीरभेदिनीति व्यामूढभाषितम् ,
(१) श्लोकवार्तिके आकृतिवार्तिके श्लो. २४ असत्यपि सामान्ये गोत्वसत्तादौ एकसामान्याब्दप्रवृत्तिः औपाधिकी मिश्या उपाधिश्च एकाकारबुद्धिजनकत्वरूपेत्यर्थः ।