SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २८६ न्यायमञ्जयोस् । तस्मात्सकृदभिव्यक्ता नान्यदापि प्रतीयते ।। अभिव्यक्तिश्च तद्देशा यदेशा व्यक्तिरीक्ष्यते । तस्मात्तस्मादभिव्यक्ता न देशे ऽन्यत्र दृश्यते ।। व्यक्तिसर्वगतत्वे ऽपि स्वयूथ्यैः कैश्चिदाश्रिते । भविष्यत्यद्य जातायां गवि गोधीस्तथा ग्रहात् ॥ जायमानैव हि व्यक्तिर्जायते प्रतियोगिनी। एक एव हि कालो ऽस्या जातेः सम्बन्धजन्मनोः ।। नेह जातः पुरास्तित्वं न च संक्रान्तिरन्यतः। किं तु स्वहेतोः सा व्यक्तिस्तादृश्येवोपजायते ॥ कथमेतदितीदं च यो वा पर्यनुयुज्यते । इतरस्य परं हेतुस्तेन पर्यनुयुज्यते ॥ वृषः पिशङ्गो गौः कृष्णा सा च नीलतृणाशिनी । ताभ्यामुत्पादितो वत्सः कथं भवति पाण्डुरः ।। यथा रूपाद्यसम्बद्धा न व्यक्तिरुपलभ्यते । तथैव जात्ययुक्तेति का ते व्यसनसंततिः ।। जास्यनङ्गीकारेऽनुगतप्रतीत्युपपादानासम्भवनिरूपणम् अगोव्यावृत्ततायां वा नैष प्रश्नो निवर्तते । कस्मादगोनिवृत्तं तदद्य जातं स्खलक्षणम् ।। तस्माद्वस्तुस्वभावेऽस्य विदित्वा ऽननुयोज्यताम् । चोद्यचुन्चुत्वमुत्सृज्य प्रतिपत्तिनिरूप्यताम् ॥ प्रतिपत्तिश्च विशेषेष्विव सामान्येषु च निरपवादा दर्शितैव, तस्माद्विशेषवदप्रत्याख्येयं सामान्यम् , विशेषवत्प्रत्यक्षत्वात्सामान्यस्य कः कल्पनार्थः, यदि हि कार्यानुमेयं सामान्यं कल्पयेम तत एवमनुयुज्येमहि कार्यस्याप्यन्यथा सिद्धः किं तत्कल्पनयेति, प्रत्यक्षे तु सामान्ये को ऽयमनुयोगः, का चेयमनुवृत्तिज्ञानोत्पादिका शक्तिः विशेषेभ्यो ऽव्यतिरिक्ता व्यतिरिक्ता वा नित्या ऽनित्या वा तदाश्रिता स्वतन्त्र वा प्रत्यक्षा परोक्षा वेति विकल्प्यमाना वाचायुक्त्यन्तरेण जातिरेव कथिता भवति न वा कि चिदिति यत्कि चिदेतत् ।। ननु यथा गोत्वादिजातिनियतास्वेव व्यक्तिषु वर्त्तते नासमञ्जस्येन (न सामस्त्येन) तथा काभिश्चिदेव व्यक्तिभिः का चिद्गवादिबुद्धिर्जन्यते इति, नैतदेवम् विषयातिशयव्यतिरेकेण प्रत्ययातिशयानुपपत्तेः, उपयातिशये तु प्रत्ययातिशयोपकारणीष्यमाणे विषयातिशयं प्रति को द्वेषः, सिद्धे च विषया. तिशये दुरपडवं सामान्यम् ।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy