________________
प्रमाणप्रकरणम्
२८५
पिण्डान्तरे ऽपि तदुपलम्भोऽस्त्येव, कथं च भवन्तमेनं निहनुमहे, एकदे. शास्तु जातेर्न सन्त्येव यैरस्या वर्तनं ब्रूमः, केदमन्यत्र चेद् अहो निपुणता तव दृष्टान्तं याचसे यस्त्वं प्रत्यनुमानवत् , किनामधेयैषा वृत्तिरिति चेद् न नामधेयं जानीमः पिण्डसमवेता जातिरित्येतावदेव प्रचक्ष्महे ।
नन्वयुतसिद्धयोः सम्बन्धः समवायः स च विप्रतिषेधादेव निरस्तः, न शक्यते निरसितुम्
प्रतीतिभेदाझेदो ऽस्ति देशभेदस्तु नेष्यते ।
तेनात्र कल्प्यते वृत्तिः समवायः स उच्यते ॥ अवयवावयविनार्गुणगुणिनाश्चेयमेव वृत्तिस्तयोरर्थान्तरत्वमुपरिष्टादर्शयिध्यते दशितं चामुनैव मार्गेण देशभेदश्च तयोनास्तीति विस्पष्टमयुतसिद्धत्वम् ।
यदप्युच्यते 'नानिष्पन्नस्य सम्बन्धोनिष्पत्तौ युतसिद्धता' इति तदपि परिह. तमाचार्य: “जातं च सम्बद्धं चेत्येकः काल" इति वदद्भिः, सर्व चैतदबाधितप्र. तीतिबलात्कल्प्यते न स्वशास्त्रपरिभाषया, विभूनामपि सम्बन्धः परस्परमसम्भवादेव नेष्यते न परिभाषणात् , न संयोगः तेषामप्राप्तेरभावादप्राप्तिपूर्विका हि प्राप्तिः संयोगः न च समवायस्तदाश्रितस्य तस्यानुपलम्भादित्यलं प्रसङ्गेन ।
ये चेह वृत्ती सक्सूनभूतकण्ठगुणादिषु ।
जात्यादीनामनंशत्वात्ताभ्यां वृत्तिविलक्षणा । तस्मावृत्त्यनुपपत्तरित्यदूषणम् ,
जात्याश्रयानरूपणम्--- यदपि सर्वगतत्वं पिण्डगतत्वं च विकल्प्य दूषितं तदपि यत्किं चिद्यथा प्रतीतिरादिशति भगवती तथा वयमप्युपगच्छामः ।
सर्वसर्वगता जातिरिति तावदुपेयते । सर्वत्राग्रहणं तस्या व्यञ्जकव्यक्त्यसन्निधेः॥ व्यक्तिय॑जकतामेति जातेइष्टदैव नान्यथा। दृष्टियंत्र यदा व्यक्तस्तदा तत्रैव तन्मतिः ॥ सर्वत्र विद्यते जातिनं तु सर्वत्र दृश्यते । तदभिव्यब्जिका यत्र व्यक्तिस्तत्रैव दृश्यते ॥ व्यक्तरन्यत्र सत्त्वे स्यात्किं प्रमाणं तदुच्यते । इहाप्यानीयमानायां गवि गोत्वोपलम्भनम् ।। गोपिण्डेन सहैतस्या न चागमनसंभवः ।। देहेनेवात्मनस्तस्मादिहाप्यस्तित्वमिष्यताम् ।। अभिव्यक्तिस्तु तत्काला यत्कालं व्यक्तिदर्शनम्