________________
पायमञ्जयम्
जातौ पूर्वपक्षनिराकरणम् ।
यदप्यभिहितम् इतरेतरविरुद्धरूपसमावेश एकत्र वस्तुनि नोपपद्यते इति तदपि न सम्यक् ।
परस्परविरोधे। ऽपि नास्तीह तदवेदनात् । एकबाधेन नान्यत्र धीः शुक्तिरजतादिवत् ॥
यत्र हि विरोधो भवति तत्रैकतररूपोपमर्देन रूपान्तरमुपलभ्यते प्रकृते तु नैवमिति को विरोधार्थः, छायातपावपि यद्येकत्र दृश्येते किं केन विरुद्धमभिधीयते अदर्शनात्तु तद्विरुद्धमुक्तं न चैवमिहादर्शनमित्यविरोधः । अत एव हि मिध्यात्वमेति नान्यतरा मतिः । न्योन्योपमर्देन बुद्धिद्वितयसम्भवः ॥
२८४
तथा चाह
यथा कल्माषवर्णस्य यथेष्टं वर्णनिश्चयः । चित्रत्वाद्वस्तुनोप्येवं भेदाभेदावधारणम् (१) ॥ इत्येवमविरोधेन भेदाभेदावधारणात् । उभयात्मकत्तैवास्तु वस्तूनां भट्टपक्षवत् ॥ एतत्तु वृत्तिविकल्पादिभ्यो बिभ्यतेवाभ्युपगतं तत्रभवतेति तिष्ठतु तावस्कि - मत्र विमर्देन ।
व्यतिरिक्तैव जातिः व्यक्तिषु वर्त्तते इति ब्रूम:
यच्च वृत्तिविकल्पादिदूषणं तत्र वर्णितम् । तत्प्रत्यक्षमहिम्नैव सर्व प्रतिहतं भवेत् ॥
यत्तावदवादि भेदेन कुवलयामलकादिवदनवभासनादिति तत्र प्रतीतिभेदा दर्शित एव ।
यत्तु देशभेदेनाग्रहणात् तदग्रहे तबुद्ध्यभावादिति तत्र तदाश्रितत्वं कारणं जातेन त्वसत्त्वम्, व्यक्तिवृत्तित्वाज्जातेः पृथग्देशतया ऽनुपलम्भ: तदग्रहो वा न पुनस्तदतिरिक्ताया अभावादेवेति ।
जातिव्यक्ति सम्बन्धोपपादनम् -
यदप्युक्तं वृत्त्यनुपपत्तेरिति तत्राप्युच्यते प्रतिपिण्डं कात्स्न्येनैव जातिर्वर्त्तते इति, पिण्डान्तरे तदुपलम्भो न स्यादिति चेत् किं कुर्मः कमुपलभामहे,
( १ ) श्लोकवातिके आकृतिवार्तिके श्लो० ५७ । नानावर्णे हि वस्तुनि य एव वर्णो निष्कृष्य दर्शयितुमिष्यते स एव शक्यते दर्शयितुम् । एवं नानारूपे वस्तुनि सर्वस्य भेदाभेदादेः सम्भव इत्यर्थः ।