________________
प्रमाणप्रकरणम्
२८३ शब्द एष विकल्प इति चेन्मैवम्
पश्यत्यनुगत रूपमविज्ञाते ऽपि वाचके ।
दाक्षिणात्य इवाकस्मात्पश्यन्नष्टपरम्पराम् ॥ अनवगतशब्दार्थसंबन्धो ऽप्यभिनवानेकपदार्थसन्निधाने तेषामनुगतं च व्यावृत्तं च पश्यत्येव रूपम् । ___ अपि च प्रथमाक्षसन्निपाते एवाङ्गुलिचतुष्टयमवलोक्यमानमन्योन्यमनुगामिना च विभक्तेन च रूपेणावगम्यते तत्कथं केवलविशेषावलम्बी चाक्षुष: प्रत्ययः। __अपि च पुराणशाबलेयपिण्डमवलोकयतः कालान्तरे बाहुलेयं पिण्डं पश्यतः पूर्वदृष्टशाबलेयपिण्डविषयं स्मरणमुत्पद्यमानं संवेद्यते तस्मात्सामान्यानवगमो नोपपद्यते, अन्यस्मिन्नसाधारणे स्वलक्षणे दृष्टे ऽन्यस्मरणस्य किं व.
ते अस्ति च तत्तेन मन्यामहे दृष्टमुभयानुगतरूपमिति, किं च व्यक्त्यन्तरदर्शने ऽपि स एवायं गोरिति प्रत्यभिज्ञायते तस्याश्च प्रामाण्यं दर्शितं दर्शयिष्यते च विस्तरतः क्षणभङ्गभङ्गेन, तस्मादनुगतरूपविषयैव सा प्रत्यभिज्ञा व्यक्तिभेदस्य विस्पष्टसिद्धत्वात् , यत्र च लघुतरपरिमाणतिलमुद्गादिप्रचयसन्निधाने विच्छिन्नसिक्थस्वलक्षणग्रहणं नास्ति तत्रानुवृत्तमेव रूपमिन्द्रियेण गृह्यते, अतः निर्विकल्पकवेलायामेव व्यावृत्तवदनुगतरूपावभासान्न सामान्या. पह्नवो युक्तः, प्रथमाक्षसन्निपाते ऽपि तुल्यत्वमवगम्यते नानात्वं चेति सामान्यभेदो वास्तवौ द्वावपि ।
सामान्यमिदमित्येवं स च तत्रानुपग्रहः । व्यावृत्तमिदमित्येवं किं वा बुद्धिः स्वलक्षणे । समानवृत्तिसापेक्षं न च सामान्यवेदनम् । तत्र सन्निहितत्वात्तु व्यक्तिवाचानुपग्रहः॥ समानवृत्त्यपेक्षत्वात्सामान्यस्यानुपग्रहे । विशेषो ऽपि हि मा ग्राहि व्यावृत्तिं स हि चेक्षते ।। अनुवृत्तिहि येष्वस्य का तेषां ग्रहणे गतिः । व्यावृत्तिरपि यान्यस्य या तेषां ग्रहणे गतिः ।। अथानुवृत्तिव्यावृत्तिनिरपेक्षं न केवलम् । वस्त्वेव गृह्यते कार्य कीहक्तदिह कथ्यताम् ।। निर्विकल्पकवेलायां निर्देष्टुं तन्न शक्यते । तदुत्थास्तूभयत्रापि साक्ष्यं ददति निश्चयाः ॥ वस्तुनाङ्गीकृता प्रारत एवोभयात्मता। यो ब्रूतस्त्वेकरूपत्वं तावुभावपि बालिशौ ॥