________________
२८२
न्यायमअर्याम्
प्रभायामिव तथैव मणिबुद्ध्या प्रवर्त्तमानः, एवं च बाह्यवस्तु संस्पर्शशून्येष्वपि विकल्पेषु समुल्लसितेषु बाह्यो ऽर्थो मया प्रतिपन्नः तत्र चाहं प्रवृत्तः स च मया प्राप्त इत्यभिमानेो भवति लौकिकानाम्, न स्वयमर्थाध्यवसायमूलः, तदुक्तं “यथाऽध्यवसायमतत्त्वाद्यथातत्त्वं चानध्यवसायात्" इति स्वप्रतिभासेऽनर्थे ऽर्थाध्यवसायात्प्रवृत्तिरित्यत्रापि ग्रन्थे ऽर्थाध्यवसायो भेदानध्यवसाय एव व्याख्येयः, एवं दृश्यविकल्पावर्थावेकीकृत्य प्रवर्त्तते प्राप्नोति चार्थमिति । तदेवमेष लेाकस्य व्यवहारो ऽवकल्पते । विवेकेनापि वाढव्या लोकयात्रा ऽथ लोकवत् ॥ तस्माद्विकल्पप्रतिबिम्बनस्य शब्दार्थतामाहु रपोहनाम्नः । प्रतीतिमार्गस्त्वविविच्यमानो जनस्य जातिभ्रममातनोति ॥ यावांश्च कश्चिन्नियमप्रकार: प्रवर्त्तते जातिषु वृत्त्यवृत्त्याः ॥ तावानपोहेष्वपि तुल्य एव भवत्यवस्तुत्वकृतस्तु भेदः || तुल्ये ऽपि भेदे शमने ज्वरादेः काश्चिद्यथा वौषधयः समर्थाः । सामान्यशून्या अपि तदेव स्युर्व्यक्तयः कार्यविशेषयुक्ताः ॥ विशेषणादिव्यवहारक्लृप्तिः तुच्छे ऽप्यपोहे न न युज्यते नः । अतश्च मा कारि भवद्भिरेषा जात्याकृतिव्यक्तिपदार्थचिन्ता ॥
जातिसाधनम् -
अत्राभिधीयते, किं जात्यादेर्बाह्यस्य शब्दार्थस्य असत्वादपोहपक्षपातः उत प्रतीतिबलादेवेति, प्रतीतिस्तावदपोहविषया भवद्भिरङ्गीकृतेति किमत्र कलहेन, नापि जात्यादेरसवमिन्द्रियार्थसन्निकर्षोत्पन्नबाध संदेह र हितप्रत्यय गम्यत्वात्स्वलक्षणवत् ।
श्रद्यमेव हि विज्ञानमर्थसंस्पर्श चाक्षुषम् । न तदुत्तरभावीति किमिदं राजशासनम् ॥ तदेवास्तु प्रमाणं वा तेनापि त्ववगम्यते ।
व्यावृत्तं वस्तुनो रूपं नानुगामीति का प्रमा ||
तथा हि निर्विकल्पकालस्यातिसूक्ष्मत्वाकिं प्रतिभासते किं न प्रतिभासते इति कथमेष कलिरावयेोरुपशाम्यतु, भवान् ब्रूते व्यावृत्तमेवावभातीति श्रहं वे ऽनुवृत्तमपि प्रतिभातीति एवं कलहायमानयोरावयोः कः परिच्छेदः, न खलु शपथस्य शपमानस्य वैष विषयः, तस्मान्निर्विकल्पकानन्तरोत्पन्नस्थूलकालकार्यपर्यालेाचनया तद्द्व्यवस्था कर्त्तव्या, तत्र च
भवेद्यदि विशेषैकविषयं निर्विकल्पकम् । सामान्याध्यवसायो ऽयमकस्मात्तत्कथं भवेत् ॥