________________
प्रमाणप्रकरणमा
२८१ अतश्च बाह्यमभावात्मकमपोहमाश्रित्य स्वरूपे दूषणेपन्यासे कण्ठशोषमनुभवनस्थाने क्लिष्टो देवानांप्रियः ।
अपि च विकल्पभूमिरों विकल्पान्तरसन्निधापितभावाभावाक्षेपी नियत. भयो बायसदृशश्च प्रतीयते, न चेदं रूपत्रयमपि बाह्ये वस्तुनि युज्यते, बाह्यस्य हि वस्तुनः स्वरूपेणावगतस्य न विकल्पान्तरोपनीतभावसम्बन्ध उपपद्यते वैय. यात् , नाप्यभावसम्बन्धी विपतिषेधान , नियतरूपता च विकल्पविषयस्य गौरव नाश्व इत्येवमवगम्यमाना वस्त्वन्तरव्यवच्छेदमन्तरेण नावकल्पते इति बलाद्यवच्छेदविषयत्वम् , अन्यथा नियमपरिच्छेदासम्भवात्सन्दिग्धं च वस्तु न गृह्यते, एवं बाह्यवस्तुविषयत्वे च निरस्ते विकल्पानासेकस्यार्थस्वभावस्येति न्यायेन पौनरुक्त्याबाह्यविषयत्वं न्याय्यम , अबाद्यान्तरारोपितं रूपं तच्च बाहावदवभासते न च व्यावृत्तिच्छायसपहाय बाह्यारोपितयोः साहश्यमन्यद. स्तीति व्यावृत्तिविषया एव विकल्याः फलतो भवन्ति ।
यद्यपि विधिरूपेण गौरश्व इति तेषां प्रवृत्तिस्तथापि नीतिविदो ऽन्यापोहविषयानेव तान् व्यवस्थापयन्ति, यथोक्तं "व्याख्यातारः खल्वेवं विवेचयन्ति न व्यवहार" इति, सो ऽयं नान्तरो न बाह्यो ऽन्य एव कश्चिदारोपित आकारो व्यावृत्तिच्छायायोगादपोहशब्दार्थ उच्यते इतीयमसख्यातिवादगर्भा सरणिः । ___ अथ वा विकल्पप्रतिबिम्बकं ज्ञानाकारमात्रकमेव तदबाह्यमपि विचित्रवासनाभेदेोपाहितरूपभेदं बाह्यवदरभासमानं लोकयात्रां वित्ति, व्यावृत्तिच्छायायोगाच्च तदपोह इति व्यवलियते, सेयमात्मख्यातिगर्भा सरणिः ।
ननूभयथाऽपि वस्तुविषयत्वाभावे विकल्पानां कथं वस्तुनि व्यवहाराः प्रव. र्तन्ते, दृष्टे ऽपि क चिद्वस्तुनि तृणादौ प्रवृत्त्यभावाद् अर्थित्वं तु प्रवृत्तेः कारणम् , कथमिति वक्तव्यमुच्यते, प्रवृत्तिस्तावदृश्यविकल्पयोरेकीकरणनिबन्धना दृश्यदर्शनानन्तर मुत्पन्ने विकल्प विकल्प्य तेन प्रतिपद्यते प्रमाता, दर्शनानन्तर्यवि. प्रलब्धस्तु दृश्यमेव गृहोतं मन्यते तदभिमानेन च प्रवर्त्तते इदं तदेकीकरणमाहुः, दृश्यविकल्पयोर्भदेा यन्न गृह्यते न पुनभिन्नयोरमेदाध्यवसाय एकीकरणमिष्यते, दृश्याद् विभिन्नस्य विकल्पस्य शुक्तरित्र रजतस्य निर्देष्टुमशक्यत्वादभेदाध्यबसाये चोभयाभावान्न भेदाध्यवसाये दर्शनमुपायो विकल्पाविषयत्वान्न विकल्पो
श्याविषयत्वात्तस्माद् भेदानध्यवसायादेव प्रवृत्तिः, प्राप्तिरपि दृश्यस्यैवार्थक्रियाकारिणे वस्तुन: पारम्पर्येण तन्मूलत्वात्कार्यप्रबन्धस्य दृश्यादर्शनं ततो विकल्पः ततः प्रवृत्तिरिति । ___ अर्थ हि मूलवर्तिनमुपलभ्य प्रवर्तमानस्तमाप्नोति अपवरकनिहित. मणिप्रमृतायां कुञ्चिकाविवरनिर्गतायामित्र प्रभायां मणिबुद्ध्या प्रवर्त्तमानः, यत्र तु मूले ऽप्यों नास्ति तत्र व्यामाहात् प्रवर्त्तमानो विप्रलभ्यते दीप
३६ न्या०