________________
२८०
न्यायमअर्याम् ननु यद्विद्यते नान्तर्न बहिः परमार्थतः । न तु विद्यत एवेति कथं शब्दार्थ उच्यते ॥ पारमार्थिकशब्दार्थसमर्थनपिपासिताः ।।
नेहागताः स्मो येनैवमनुयज्येमहि त्वया ॥ यत एव तन्नान्तर्बहिरस्ति तत एव मिथ्येति काल्पनिकमिति च गीयते, किं पुनस्तत्, आरोपितं किं चिदाकरमानं विकल्पोपरजकम्, ननु बाह्योर्थव्य. तिरेकेण किमीय आकारः आन्तरान्तरस्य ज्ञानस्योपरजक उच्यते दृश्यसयैवानुरखिका विकल्पना नेदृशो ऽर्थः, व्यावृत्तं हि वस्तु दर्शनानां विषयः तच्च स्प्र. ष्ट्रमक्षमा विकल्पा इत्यक्तम्, अथ तच्छायमवलम्बमाना विकल्पा व्यावृत्तस्याप्रहणायावृत्तिविषया इत्युच्यन्ते । । ___ ननु व्यावृत्तितद्वतोरभेदाद्यावृत्तिर्यच्च व्यावृत्तं स्वलक्षणं तदेकमेवेति व्या. वृत्तिग्राहिभिर्विकल्पव्यावृत्तमपि गृहीतं स्यादिति दर्शनतुल्या भवेयुः, नैतदेवम्, न विकल्पव्योवृत्तं वस्तु गृह्यते न च पारमार्थिकी व्यावृत्तिरपि तु कश्चिदारो. पित आकारः वास्तवत्वे हि व्यावृत्तः वस्तुसंस्पर्शिन एव दोषाः प्रादुःप्युः न स्वसो तथेत्युक्तम्, अत एव यत्के चन पर्यचूचुदन् किल व्यावृत्तग्रहणपक्षे त्रितयग्रहणं प्राप्नोति ययावृत्तं येन निमित्तेन व्यावृत्तं यतश्च व्यावृत्तमिति न च त्रितयमस्तीत्यतः कथं व्यावृत्तग्रहणमिति तदप्यपास्तं भवति, यदि हि व्यावृत्तं गृहीम इति एवमुल्लेखो भवेद्व्यवहर्तृजनस्य तदैवमसौ पर्यनुयुज्येत न त्वेवमस्तीत्यचोद्यमेतत् ।
नन्वेवमारोपिताकारविषया विकल्पा युक्ता भवन्ति व्यावृत्तिविषयत्ववाचो. युक्तिरनन्वितेत्युक्तम् , समाहितमेतद् दर्शनपृष्ठभाविभिाँरित्यादिविकल्पैरत. कार्यपरावृत्त आकार उल्लिख्यते न हि गोविकल्पैरतत्कार्याणामश्वादीनामुल्ले. खः स्वलक्षणं च न स्पृश्यते सामान्यं च वास्तवं नास्ति तस्मादतत्कार्यपरावृत्तिविषयत्वमेव विकल्पानामवतिष्ठते इत्येवं युक्त्या तेषामपोहविषयत्वमुच्यते न प्रतिपत्तितः। ___ नन्वतत्कार्यपरावृत्तमिव सजातीयव्यावृत्तमपि दृश्यस्वरूपं तत्र विजातीयव्यावृत्तिः स्वलक्षणं चान्यद् न चैकतराकारोल्लेखननियमहेतुमुत्पश्यामः, धी. मन्मैवं मंस्थाः निश्चयात्मनो निर्विकल्पाः सजातीयविजातीयव्यावृत्ताकारोल्लेखे च सर्वात्मना तन्निश्चयाद्विकल्पान्तराणां शब्दान्तराणां प्रवृत्तिः स्यात् , तथा च गौरिति शाब्दादुत्पद्यमानो विजातीयव्यावृत्ताकारोल्लेखीव विकल्पः संवे. द्यते न सजातीयव्यावृत्तोल्लेखी तुल्यविषयाश्च विकल्पैः शब्दा इत्यन्यापोहविषया उच्यन्ते, सो ऽयमारोपिताकरो न बहिरारोपितत्वादेव नान्तः अबोधरूप. त्वात् , अतश्चासौ न किं चिदेव न किं चिदपि भवनपोह इति फलत उपचर्यते,