________________
प्रमाणप्रकरणम्
२७४
अपि चाश्वादयः सामान्यरूपेण वापो रन्विशेषात्मना वा, न विशेषात्मना तदनङ्गत्वादशब्दवाच्यत्वाच्च, सामान्यात्मना तु तेषामप्यपोहरूपत्वादभावत्वम् , कथं चाभावस्यैवाभावः क्रियते करणे वा प्रतिषेधद्वययोगाद्विधिरवतिष्ठते इति विधिरूपः शब्दार्थः स्यात् , अपोह्यात्मनश्च तुरगार्यो ऽपोहः स तस्मा. द्विलक्षणः अन्यथा वा, वैलक्षण्ये तस्य भावात्मता भवेत, अवैलक्षण्ये तु याहश. एव अपोह्यः तादृश एव तदपोह इति गौरप्यगौः स्यात् , किं चापोहशब्दार्थपक्षे नीलमुत्पलमित्यादौ विशेषणविशेष्यभावसामानाधिकरण्यादिव्यवहारा विलुप्येरन् न ह्ये कस्मिन्नर्थे द्वयोरपहियोवृत्तिरुपपद्यते, न चैकः कश्चिदर्थों ऽस्ति यत्र तयोवृत्तिः स्वलक्षणस्याशब्दार्थत्वादन्यस्य चासम्भवात् , न च वृत्तिरपि का चिदस्ति सज्ज्ञेयादिशब्दानामपोहनिरूपणासम्भवान्नापोहवाचित्वम, न ह्यसदज्ञेयं वा किं चिदवगतं यद्व्यवच्छिद्यते ज्ञातं चेत्सदेव तज्ज्ञयं चेत्यतः कथं सच्छब्देन सदेव ज्ञयशब्देन च ज्ञेयमेवापोह्यते, अज्ञातं तु नितरामनपो. ह्यम् , कल्पितं तु तद्वक्तुमशक्यं कल्पनयैव सत्त्वाज्ज्ञयत्वाच्च, अपोहशब्दस्य च किं वाच्यमिति चिन्त्यम् , अनपोहो न भवतीत्यपोहः कश्चायमनपोहः कथं वा ऽसौ न भवति अभवन्वा किमवशिष्यते इति सर्वमवाचकम् , प्रतिषेधवाचिनां च नबादिशब्दानां का वार्ता अत्र न भवतीति नेति कोऽर्थः उपसर्गनिपातानां च कथमपोहविषयत्वमाख्यातशब्दानां च पचतीत्यादीनामपोहो दुरुपपादः नाम्नामेव जातिशब्दानामपोहविषयत्वमिष्यते येषां भवन्तो जातिवाचित्वं तद्व. द्वाचित्वं वा प्रतिपद्यन्ते इति चेत् ततो ऽन्येषां तर्हि का वार्ता, बाह्यार्थवाचित्वे जातिशब्देषु को द्वेषः निरालम्बनत्वे ज्ञानांशालम्बनत्वे वा जातिशब्दानामपि तदेवास्तु किमपोहवादप्रमादेन ।
यथैव प्रतिभामात्रं वाक्यार्थ उपकल्पितः । पदार्थो ऽपि तथैवास्तु किमपोहाग्रहेण वः ।। इत्यादि दूषणौदार्यमपोहे बहु दर्शितम् ।। अतः शब्दार्थतामस्य वदेयुः सोगताः कथम् ॥
बौद्धाभिमतापोहनिरूपणम् । उच्यते तदेतदविदितबौद्धसिद्धान्तानामभिधानम्
अपोहो यदि भावात्मा बहिरभ्युपगम्यते ।
ततो भवति भावत्कं वाग्जालं न त्वसौ तथा ॥ किं तु खल्वयमान्तरो ज्ञानात्मा सौगतानामपोहः सम्मतः तथा ऽभ्युपगमे केयमपोहवाचायुक्तिः, स्वांशविषयं पदार्थज्ञानमित्येतदेव वक्तुमुचितम् , एत. दपि नास्ति नायमान्तरो न बाह्यो ऽपोहः किं तु ज्ञानाथोभ्यामन्य एव ।