SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २७८ न्यायमञ्जर्याम् त्तमेषां किं चिदस्ति, अश्वादयश्च विधिरूपतया भवन्मते न गृह्यन्ते किं त्वन्यव्यवच्छेदेनैवेति तेषामपि व्यवच्छेदग्रहणे सैव वातेति नेदानी विकल्पैः क चिदपोहो विषयीकत शक्यते निर्विकल्पेन च न कश्चिद्व्यवहार इति सकलयात्रोत्सादप्रसङ्गः, किं च ये एते शावलेयादिशब्दाः ते सर्वे एवापोहवाचित्वावि. शेषात्पर्यायाः स्युः, अपोहभेदाददोष इति चेन्न, अपोहानां भेदाभावात् , भिद्य. मानत्वे वा स्वलक्षणवदेषां वस्तुत्वप्रसक्तिः, भवत्पक्षे ऽपि सामान्यमात्रवाचित्वाविशेषात्पयोयत्वं समाना दोष इति चेन्न, सामान्यानां विधिरूपत्वात्परस्परसंरहितस्वभावतया नानात्वावगमात्, अपोहस्त्वभावमात्ररूपविशेषान्न परस्परं भिद्यते, कर्कादिशाबलेयाद्याधारभेदादपोहभेद इति चेन्न, तेषामाधारत्वस्य निरस्तत्वात् , आधारभेदेन वा तद्भेदाभ्युपगमे प्रतिस्वलक्षणमपोहतद्भेदप्रसङ्गः, ततश्च समान्यात्मता ऽस्य हीयते । अथापोह्यभेदेनापोहभेदमवधायें पयोयता पराणुयते तदप्यसारम, भवन्नपोहिभेदाभेदो न पर्यायत्वमपहन्ति भाक्तो ह्यसौ न मुख्यः, न चापोह्यभेदाखेदो ऽपोहस्यावकल्पते, यो हि सम्भाव्यमानसंसगैराधारैरपिन भेत पार्यते स दूरवर्तिभिरलब्धसबन्धैरतिबाद्यैः कथं भिद्यत । ___अभ्युपगम्यापि सः यद्यपाह्यभेदादपोहभिन्नत्वमपोबैक्यातहि तदैक्येनापि भवितव्यम्, अतश्च गवाश्वयोरन्यापोहेन व्यवस्थाप्यमानयोरगावो ऽनश्वाश्च हस्त्यादयो ऽपोह्यास्तुल्या भूयांसो वा भवन्ति असाधारणस्तु एको गौरश्वे गवि चाश्वो ऽतिरिच्यते तत्रेहापोह्यभेदाद्वाश्वयोर्भेदो भवतु भूयसामपोह्यानामभे दादभेदो भवत्विति विचारणायां विप्रतिषिद्धधर्मस्य समवाये भूयसां स्यात्स. धर्मत्वमित्यभेद एव न्याय्यो भवेत् । अथ साधारणत्वादश्वापोय एव गोऽपोहेन व्यवस्थाप्य इष्यते स तर्हि सिं. हादावप्यस्तीति सोपीदानी गौर्भवेत् , अथाश्वादिविशेषोद्घोषरहितमागोरूप्यं व्यवच्छेद्यमुच्यते तत्प्रत्येकं प्रहीतुमशक्यमानन्त्यात् , वर्गीकरणकारणं च किं चिन्नास्त्येव न हि सर्वेषामगवामश्वादीनामेकदेशत्वमेककालत्वं वा समस्ति । अथ गोप्रतिषेध एव वर्गीकरणहेतुरिष्यते हन्त तहि गौः पूर्वसिद्ध एपित. व्यः यत्प्रतिषेधेनागावः प्रतीयेरन , पूर्वसिद्धे च गवि लब्धे किमगोभिः किं तद. पोहेन प्रयोजनम्, पूर्वसिद्धं गोस्वलक्षणमस्त्येवेति चेन तेन व्यवहाराभावात, गोसामान्ये तु पूर्वसिद्धे मुधा ऽपोहप्रयत्न इत्युक्तम् ।। ___ अथ गोसामान्यमगोप्रतिषेधेन सिद्धयति तदा दुस्तरमितरेतराश्रयत्वम् अगोनिषेधेन गोसिद्धिः गोसिद्ध्या चागोनिषेधसिद्धिरति, तस्मादपोहस्यैव निरूपयितुमशक्यत्वान्न तझेदादपोहभेदः सिद्धयति ।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy