________________
प्रमाणप्रकरणम्
तथा हि न विकल्पा वस्तु स्पृशन्ति । कुतः
एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् ।
को ऽन्यो न दृष्टो भागः स्याद्यः प्रमाणैः परीच्यते ।। तस्माद् भ्रमनिमित्तसमारोपिताकारान्तरनिषेधाय तेषां प्रवृत्तिः, यथा रूपसाधर्म्यसमारोपितरजताकरनिवारणाय शुक्तौ प्रमान्तरं प्रवर्त्तते नेदं रजतमिति तथेहापि शाबलेयादिस्वलक्षणे निर्विकल्पकेन सर्वात्मना परिच्छिन्ने कुतश्चिन्निमित्तादारोपितमगोरूपमिव व्यवच्छिन्दन्ति विकल्पाः, अगौर्न भवतीति न तु गोः स्वलक्षणग्रहणे तेषां व्यापारः प्रागेव गृहीतत्वात् । __अथ ब्रयात् नानाविशेषनिकरकल्माषितवपुषस्तस्यार्थस्य किं चिद्विशेषणं गृहीतं विकल्पद्यते इति तदप्ययुक्तम् , विशेषणनिकररूषितस्यापि वस्तुनः तद्विशेषणोपकारशक्तिव्यतिरिक्तात्मनो ऽनुपलाम्भात्तदभेदे सति तद्विशेषेणोपकार्यवस्तुस्वरूपग्रहणवेलायामेव तत्त्वात्तच्चित्रग्रहणासिद्धेविकल्पान्तराणामानर्थक्यमेव, तदुक्तम्यस्यापि नानोपाधिनिर्वाहिका ऽर्थस्य भेदिनः, तस्यापि
नानोपाध्युपकाराङ्गशक्त्यभिन्नात्मनो ग्रहे ।
सर्वात्मनोपकार्यस्य को भेदः स्यादनिश्चित इति । ।३.१ " . ३१५१ तस्मादपोहविषयाः शब्दा विकल्पश्चेति ।
मीमांसकरीत्या अपोहनिराकरणम् । नन्वपोहशब्दार्थपक्षे महती कृपाणवृष्टिमुत्ससर्ज भट्टः, तथा हि अपोहो नाम व्यावृत्तिरभाव इष्यते न चाभावः स्वतन्त्रतया घटवदवगम्यते, तदयमन्याश्रितो वक्तव्यः कश्च तस्याश्रयः इति चिन्त्यम् , न तावद्भोः स्वलक्षणमाश्रयः तस्य विकल्पभूमित्वाभावात् , नाप्यवान्तरसामान्यं शाबलेयत्वादि तदाश्रयः तद्धि अशाबलेयनिवृत्तेराश्रयतां प्रतिपद्यते न ह्येवमुपपद्यते अशाबलेयो भवतीति गौः किं तु शाबलेय इति, शाबलेयव्यावृत्तिर्हि गोष्वपि बाहुलेयादिष्वस्ति । ___ अथ वा शाबलेयादिस्वलक्षणसमुदायमगोव्यावृत्तेराश्रयं प्रयुः सोऽप्यघटमान एव समुदायिव्यतिरेकेण तस्यानुपलम्भात् , समुदायिनां च स्वलक्षणानां देशकालादिभेदेनानन्त्याद्वर्गीकरणं पुरुषायुषशतेनापि न शक्यक्रियमिति समु. दायो ऽपि न तदाश्रयः, तस्मात्सर्वसाधारणं प्रतिपिण्ड परिसमाप्तं किमपि नूतनमगोव्यावृत्तरधिकरणमभिधातव्यम, तच गोत्वमेव तस्मिन्नङ्गीकृते वा किम. गोव्यावृत्तिकल्पनाऽऽयासेन ।
अपि च न केवलमाश्रयाभावात्तद्ग्रहणं सम्भवति नापि वर्गीकरणनिमि.