________________
२७६
न्यायमञ्जर्याम्
कर्कादिकार्यादन्यत्वं यथा ह्येतस्य दृश्यते ।
न तथा खण्डकायस्य मुण्डकायोविभिन्नता।। ननु तथा मा भून स्वभिन्नमेव खण्डमुण्डयोः कार्यम्, दर्शनमेव तर्हि तयोरेक कार्य भविष्यति तच्चाभिन्नम् , ननु दर्शनमपि प्रतिव्यक्ति भिन्नमेव सत्यम्, तत्तु स्वपृष्ठभाविप्रत्यवमांख्यकायक्यादेकमित्युच्यते, यथैव शाबलेयादिपिण्डदर्शनेऽपि गौरित्येवावमर्श इति तदेकत्वमुच्यते, तदुक्तम्
एकप्रत्यवमर्शस्य हेतुत्वाद्धीरभेदिनी। अमानवा.
एकधीहेतुभावेन व्यक्तीनामपि भिन्नतेति ॥ ३९०८ तस्मादौपाधिकत्वादनुवृत्तबुद्धेर्ने सामान्यं किं चिद्वास्तवमस्तीति । जात्यनङ्गीकारेऽपि शब्दानुमानयोः सबन्धग्रहणोपपादनम् । तत्राह
अनिष्यमासे सामान्ये ननु शब्दानुमानयोः । कथं प्रवृत्तिः सम्बन्धग्रहणाधीनजन्मनोः ।। न हि व्यक्तिषु सम्बन्धो ग्रहीतुमिह शक्यते।
स हि व्यक्तिषु गृह्येत सर्वास्वेकत्र वा क चित् ।। न तु सर्वासु देशकालादिभेदेन तदानन्त्यादशक्यत्वात, नैकस्यां व्यभिचा. रात्ततोऽन्यत्रापि स शब्दः प्रवर्त्तमानो इश्यते, अगृहीतसम्बन्धे च न शब्दलिने तत्प्रतीतिमुत्पादयितुमुत्सहेते इति, उच्यते स्यादेतदेवं यदि प्रत्यक्षविषये स्वलक्षणे शब्दलिङ्गयोः प्रवृत्तिः स्यात् , ननु प्रत्यक्षविषये तयोर्वृत्तावनिष्यमाणायामनवस्थादिदोषोपघातादप्रवृत्तिरेव स्यात्, मैवं वाचः कथमसकृदभिहित. मपि न बुद्धयसे ।
विकल्पविषये वृत्तिरिष्टा शब्दानुमानयोः । __ अवस्तुविषयाश्चैते विकल्पा इति वर्णितम् ।।
अपोहस्य विकल्पविषयत्वम् । ननु विकल्पानामपि विषयो यद्यनुगामी कश्चिन्नेष्यते तदुत्सीदेतामेव शब्दानुमाने, बाढमस्ति विकल्पानामनुस्यूतो विषयः स तु न वास्तवः, कः पुनरसाविति चेत्
अतद्रूपपरावृत्तिस्वभावमबहिर्गतम् । महिः स्थमिव सामान्यमालम्बते हि विकल्पः ।। या च भूमिर्विकल्पानां स एव विषयो गिराम् । अत एव हि शब्दार्थमन्यापोहं प्रचक्षते ॥