________________
प्रमाणप्रकरणम्
२७५ तदेव सामान्यं स एव विशेषः तदेवैकं तदेव नाना तदेव नित्यं तदेवानित्यं तदेवास्ति नेति चादृष्टमिदमुच्यते उच्यमानमपि न शोभते ।।
दृष्टत्वान्न विरोधश्चन्न तथा तदवेदनात् ।
उक्तं हि नानुवृत्तार्थग्राहिणी नेत्रधीरिति ॥ विचित्रकल्पनाप्रबन्धविप्रलब्धबुद्धयः खल्वेवं मन्यन्ते भवन्तु ते न त्वेक वस्तु बहुरूपं भवितुमर्हति । ।
एक हि वस्तुनो रूपमितरत्कल्पनामयम् । नानुवृत्तविकल्पेषु विस्रम्भ उचितः सताम् ।। द्रागितो ह्यन्यसंस्पर्शनरपेक्ष्येण हश्यते । स्वलक्षणमतो भेदस्तात्विको ऽनुगमो मृषा। दृष्टादृढत्वमक्षुण्णमपरीक्ष्यैव संविदाम् । द्वयप्रतीतिमात्रेण द्वयाभ्युपगमो भ्रमः ॥ न नेति प्रत्ययादेव मिथ्यात्वं केवलं धियाम् । किं तु युक्तिपरीक्षा ऽपि कर्तव्या सूक्ष्मदर्शिमिः ।। न चैकं शबलं वस्तु निर्विकल्पकगोचरः।
व्यक्त्यन्तरानुसंधानाद्विना ऽनुगमधीः कुतः ॥ येष्वनुगतं तत्सामान्यं तेषु बुद्धयाननुसंधीयमानेषु तवृत्तिसामान्यग्रह. णासम्भवान्न चानुसंधानसामर्थ्य बुद्धरस्ति।
अत एव न ते सम्यगक्षजज्ञानवेदिनः ।
अभेदवृत्तिप्रत्यक्षमाहुरद्वैतवाग्छया ॥ तस्माद्भेदविषयत्वात्प्रत्यक्षस्य न तद्गतं सामान्यम् ,
जात्यनङ्गीकारेप्यनुगतप्रतीत्युपपादनम्नन्वेवमपढ़यमाने सामान्ये गोर्गोरिति शाबलेयादिषु यो ऽयमनुवृत्तः प्रत्ययः स कथं समर्थयिष्यते, उक्तमत्र विकल्पमात्रमेष प्रत्ययो विकल्पाश्च नार्थाधीनजन्मान इति, तथा च परपरिकल्पितेषु सत्तादिसामान्येष्वपि नि:सामान्यानि सामान्यानीत्यभ्युपगमात, औपाधिक एषु सामान्येष्वनुगतविकल्प इति चे आयुष्मन् गवादिष्वपि कं चिदुपाधिलेशमवलम्ब्य गौौरित्यनुस्यूतविकल्पो भविष्यति, कः पुनरसावुपाधिरिति चेदेकार्थक्रियाकारित्वमिति ब्रूमः ।
यदेव वाहदोहादि कार्यमेकेन अन्यते।
गोपिण्डेन तदेवान्यैरिति तेष्वनुवृत्तिधीः॥ ननु प्रतिव्यक्ति कार्य भिन्नमेव सत्यम्
भेदबुद्धिभयात्तत्तदेकमित्युपचर्यते ।