________________
१७४
न्यायमञ्जर्याम्
सर्वत्रैव प्रतीयेत न वा सर्वगतं भवेत् ॥ तद्देशग्रहणे तस्य न हि किं चिन्नियामकम् । दीपवब्जकः पिण्डेो न तु तत्पिण्डवृत्ति तत् ॥ सर्वत्र गृह्यमाणं च सर्वत्रास्तीति मे ऽन्वयः । सर्वसर्वगतं तस्मान्न गोत्वमुपपद्यते ॥ पिण्डसर्वगतत्वे तु काममेतददूषणम् । किं तु नैवाद्य जातायां गवि गोप्रत्ययो भवेत् ॥ पिण्डे नासीदसंजाते जातिर्जाते च विद्यते । संक्रामति न चान्यस्मात्पिण्डादन्यत्र निष्क्रिया ॥ आयान्त्यपि न तं पिण्डमपोज्झति पुरातनम् । न चांशैर्वर्त्तते तत्र कष्टा व्यसनसन्ततिः ॥ सर्वबुद्धीनां व्यावृत्त्यनुवृश्यनुगमात्मकस्वशङ्कापरिहारौ -
भट्टास्तु ब्रुवते भिन्नाभिन्नमेकम् -
वस्तुबुद्धिर्हि सर्वत्र व्यावृत्त्यनुगमात्मिका ।
जाते ह्यात्मकत्वेन विना सा च न सिद्ध्यति (१) । केवल विशेषात्मकपदार्थ पक्षे सामान्यप्रतीतेर्नालम्बनत्वं सामान्यमात्रवादे विशेषबुद्धेरनुपपत्तिः ।
न चाप्यन्यतरा भ्रान्तिरुपचारेण गम्यते । दृढत्वात्सर्वदा बुद्धेर्भ्रान्तिस्तद्भ्रान्तिवादिनाम् (२) ।
न हि मिहिरमरीचिनिचयनीर प्रतीतिवत्सामान्यप्रत्ययोपमर्देन विशेषप्रती - तिः विशेषप्रत्ययेोपमर्देन वा सामान्यप्रतीतिरुदेति किं तु श्रविरोधेनैव युगपदुभयावभासः, अत एव निर्विकल्पबधे न ह्यात्मकस्यापि वस्तुना प्रहणमुपेयते । तदेतदभिधीयमानमेव न मनोज्ञमिवाभाति ।
नानारूपं त्वयैकस्य विरुद्धं वदता स्वयम् | दूषणादान मौखर्यमस्माकमपवारितम् ॥
( १ ) श्लोकवार्त्तिके आकृतिवार्त्तिके श्लो० ५ वस्तुनः द्वयात्मकत्वमन्तरा व्यावृत्यनुगमात्मिका बुद्धिर्न संभवति यदि सौगतवत् स्वलक्षणमेव स्यान्न सामान्यं तदानुवृत्तबुद्धिने ख्यात् यदि च वेदान्तिवत् सामान्यमेव स्यात्तदा व्यावृत्तबुद्धिर्न स्यादित्यर्थः ।
(२) तत्रैव श्लो० ७ ननु एकस्य सामान्यविशेषात्मकत्वं न युक्तिसह मित्य. न्यतरद् भ्रान्तं स्यादित्यत आह-न चेति । उभयोर्हढत्वान्नैकस्य भ्रान्तत्वं कल्पयितुं शक्यमित्यर्थः ।