________________
प्रमाणप्रकरणम्
२७३
त्मा सम्बन्ध एवमेव परिहर्तव्यः, यथाऽऽह भट्टः(१) नानिष्पन्नस्य सम्बन्धो निष्पत्तौ युतसिद्धतेति, परमाण्वाकाशयोः परमाणुकालयोश्च सम्बन्ध इष्यते नाकाशकालयोरन्योन्यमिति प्रक्रियेवेति अलमपान्तरचिन्तनेन, अस्मान्न जा. तिव्यक्तयोः का चिद् वृत्तिरुपपद्यते ।
सुशिक्षितास्तु रूपरूपित्वलक्षणमाचते जातिव्यक्तयोः सम्बन्धं सोऽपि नोपपद्यते, रूपशब्दः किं शुक्लादिवचनः आकारवचनः स्वभाववचनो वा, शुक्लादिवचनत्वे नीरूपाणां पवनमनःप्रभृतीनां द्रव्याणां गुणकर्मणां च सामान्यशून्यता स्यात् , आकारवचनत्वेऽपि अवयवसन्निवेशरहितानां तेषामेव गुणादीनां सामा. न्यवत्ता न प्राप्नोति, स्वभाववचनत्वे तु जातिजातिमतोरव्यतिरेक एव भवेत् ।
अवभाति हि भेदेन स्वभावो न स्वभाविनः ।
शब्दातिरिक्ततैवेयं न तु वस्त्वतिरिक्तता ॥ कि चेदं रूपं नाम किं वस्त्वेव वस्तुधर्मो वस्त्वन्तरं वा, वस्त्वन्तरं तावन्न प्रतिभातीत्युक्तम् , वस्तुधर्मोऽपि तद्यतिरिक्ततया स्थितो न चकास्त्येव, अव्य. तिरेके च सम्बन्धवाचायुक्तिरनुपपन्नेत्युक्तम् , न च रूपरूपित्वलक्षणसम्बन्धः संयोगसमवायव्यतिरिक्त: कोऽपि श्रोत्रियैर्विविच्य व्याख्यातुं शक्यते यथा ईगिति, तस्माद्वाचायुक्तिनूतनतामात्रमिह कृतं न त्वर्थः कश्चिदुत्प्रेक्ष्यते इत्यलं प्रसङ्गेन ।
जात्याधारानुपपत्तिप्रदर्शनम् । अपि चेयं जाति:
सर्वसर्वगता वा स्यापिण्डसर्वगता ऽपि वा । सर्वसर्वगतत्वे स्यास्ककोदावपि गोमतिः ।। अश्वधीः शाबलेयादावुष्टबुद्धिर्गजादिषु । पदार्थसंकरश्चैवमत्यन्ताय प्रसज्यते ॥ अथापि व्यक्तिसामर्थ्यनियमान्नैष संकरः । न हि कर्कादिपिण्डाना गोस्वादिव्यक्तिकौशलम् ।।
मैवं खण्डाथभिव्यक्तमपि गोत्वमनंशकम् । (१) श्लोकवार्तिक सू० ४ श्लो० १४६ । न चाप्ययुतसिद्धानां सम्बन्धित्वेन कल्पना । इति कारिकापूर्वार्द्धम् । अयमर्थः वैशेषिकाः जातिव्यक्त्योरेकान्तभेदमेवा. ङ्गीकृत्य समवायसम्बन्धं मन्यन्ते यदाहुः 'अयुतसिद्धानामाधार्याधारभूतानामिहप्रत्यय हेतुर्यः सम्बन्धः स समवाय' इति अयुतसिद्विश्वापृथसिद्धिः, तानिराचष्टे न चेति । अनिष्पन्नस्य घटादेः सामान्येन सम्बन्धो न सम्भवति निष्पत्तौ च युतसिद्धता इति अपृथसिद्धत्वानुपपत्तिरिति ।
३५ न्याय