________________
२७२
न्यायमञ्जर्याम्
प्स्यादिव्यवहारस्तु प्रकारान्तरेण दर्शयिष्यते, अतश्च न व्यक्तिव्यतिरिक्तं सामान्यं भेदेनानुपलम्भात् , तथा हि, कुवलयामलकबिल्वादीनि करतलवर्तीनि पृथगवलोक्यन्ते न जातिव्यक्ती इति न तयोर्भेदः, देशभेदस्य चाग्रहणाद्यत्खलु यतोऽतिरिक्तं तत्तदधिष्ठितदेशव्यतिरिक्तदेशाधिष्ठानमवधार्यते घटादिव पट: न चैवं जातिव्यक्ती इति न तयाभेदः, अतश्चैवं तदग्रहे तबुद्धयभावाद्यद्धि यतो व्यतिरिक्त तस्मिन्नगृह्यमाणे ऽपि गृह्यते घटादिव पटो न च व्यक्तावनुपलभ्यमानायां जातिरुपलभ्यते तस्मान्न ततो ऽसौ भिद्यते, तवृत्तित्वात्सामान्यस्य तदप्रहे तदानुपलब्धिरिति चेन्न वृत्त्यनुपपत्तेः ।
जातिव्यक्तिसम्बन्धानुपपत्तिप्रदर्शनम् किं प्रतिपिण्डं कात्स्न्येन वर्तते जातिरुतैकदेशेनेति द्वयमपि चानुपपन्नम्
पिण्डे सामान्यमन्यत्र यदि कात्स्न्येन वर्तते । तत्रैवास्य समाप्तत्वान्न स्यात्पिण्डान्तरे ग्रहः॥ एकदेशेन वृत्तौ तु गोत्वजातिर्न कुत्र चित् ।
समप्रा ऽस्तीति गोबुद्धिः प्रतिपिण्डं कां भवेत् ॥ जातेश्च निरवयवत्वान्न के चिदेकदेशाः सन्ति यैरेषा प्रतिपिण्डं वर्तते. न चैकत्र पिण्डे समाप्त्या वर्तमाना पिण्डान्तरे समाप्त्यैव वर्तितुमर्हति, समाप्तस्य पुनरुत्पत्तिं विना समाप्त्यन्तरानुपपत्तेः, तथा भूतस्य च वृत्तिप्रकार. स्य क चिदप्यदर्शनात, या च समवायात्मिका पिण्डेषु वृत्तिः सामान्यस्यौलुक्यरुच्यते तामपि न बुद्ध्यामहे वयम् ।
अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स समवाय इति यदुच्यते तद्विप्रतिषिद्धम्, अयुतसिद्धता च सम्बन्धश्चेति कथं सङ्गच्छते, पृथकसिद्धे हि वस्तुनी कुण्डबदरवदन्योन्यं सम्बध्येते स्त्रीपुंसवद्वा, अयुतसिद्ध तु तदेकत्वारिक केन सम्बध्यते, द्रव्यगुणयोरपृथसिद्धयोरपि सम्बन्धो विद्यते एवेति चेत् तदिदमन्यत्तस्योन्मत्तसंवर्णनम् , गुणिनोऽपि गुणव्यतिरिक्तस्यानुपलम्भात् , अयं गुणी रूपादिभ्योऽर्थान्तरत्वेन नात्मानमुपदर्शयति व्यतिरेक च तेभ्यो वान्छन्तीति चित्रम् । . यदपि नित्यानित्यविभागेन युतसिद्धः स्वशास्त्रे परिभाषणं कृतम , नित्यानां परमाणूनां पृथग्गतिमत्त्वं युतसिद्धिर नित्यानां तु युताश्रयिसमवायित्वं वि. भूनां परस्परमाकाशादीनां सम्बन्ध एव नास्तीति तदपि प्रक्रियामात्रम् , नानास्वेन सिद्धिनिष्पत्तिज्ञप्तिर्वा युतसिद्धिरित्युच्यते तद्विपर्ययादयुतसिद्धिरैक्येन सि. द्धिरवतिष्ठते तथा च सति सम्बन्धो दुर्वचः, अवयवावयविनोरपि समवाया.