________________
प्रमाणप्रकरणम्
२७१
प्रपन्नाय विपन्नानां दुःखितानां सुखात्मने ।
सम्पूर्णाय दृढाशानां नमोऽकारणबन्धवे ।। __ अथ यदुक्तं वास्तवस्य शब्दार्थस्याविद्यमानत्वादर्थासंस्पशिनः शब्दा इति तत्प्रतिविधीयते, द्विविधः शब्दः पदं वाक्यं च, तत्र पदार्थपूर्वकत्वाद्वाक्यार्थस्य प्रथमं पदार्थों निरूप्यते ।।
पदं च द्विविधं नाम आख्यातं च, उपसर्गनिपातकर्मप्रवचनीयानामपि नामान्तर्भावमाचक्षते, तदुक्तम् सुप्तिङन्तं पदमिति,इहापि सूत्रकृदाह ते विभक्तयन्ताः पदमिति(१), ___ तत्र तिङन्तपदार्थचिन्ता वाक्यार्थविचारावसरे एव करिष्यते तदोपयिक. त्वात, सुबन्तानां त्वर्थों ऽयमुच्यते, ते च चतुविधाः सुबन्ताः पदात्मनः शब्दा भवन्ति, जातिशब्दा गुणशब्दाः द्रव्यशब्दाः क्रियाशब्दा इति, तत्र गवादि. जातिशब्दानां गोत्वादिजात्यवच्छिन्नं व्यक्तिमात्रमों यस्तद्वानिति नैयायिकगृहे गीयते ।
ननु शुक्लादिगुणाधिकरणं क्रियाश्रयश्च द्रव्यं व्यक्तिः सास्नाद्यवयवसन्निवे. शात्मिका आकृतिः शाबलेयादिसकलगोपिण्डसाधारणं रूपं जातिरिति व्यक्तयाकृतिजातिसन्निधाने समुच्चारित एष गोशब्दः कथमितरतिरस्कारेण तद्वन्मात्रव. चनतामवलम्बते, आह वितता त्वियं कथा वर्तयिष्यते तावत् ।
जात्यङ्गीकारे आक्षेपः इदं तु चिन्त्यताम् , जातेरेव प्रमाणातीतत्वेन शशशृङ्गवदविद्यमानत्वा. कथं तद्वान्पदार्थों भविष्यति, तथा हि न तावत्सामान्यग्रहणनिपुणमतजं ज्ञानं भवितुमर्हति तस्य पूर्वापराननुस्यूतस्वलक्षणमात्रपरिच्छेदपरिसमाप्तव्यापारत्वात् ।
समानवृत्तिता नाम सामान्यस्य निजं वपुः ।
कथं स्पृशति सापेक्षमनपेक्षा ऽक्षजा मतिः ॥ समानेष्वाकलितेषु तद्वृत्ति साधारणरूपमवधार्य सामान्यं गृह्यते इति सापेक्षं तत्स्वरूपग्रहणम् , इयं च प्रथमनयनसन्निपातसमुद्गतमतिः पूर्वापरानुसन्धानवन्ध्या निरपेक्षा कथं तद्ग्रहणाय प्रभवेत् , तत्पृष्ठभाविनस्तु विकल्पाः स्वभावत एव वस्तुसंस्पर्शकौशलशन्यात्मान इति तद्विषयीकृतस्यापि सामान्यस्य न परमा थेसत्त्वं भवितुमर्हति, न चानुमानं शब्दो वा सामान्यस्वरूपवास्तवत्वव्यवस्थापनसामर्थ्यमश्नुते शब्दलिङ्गयोविकल्पविषयत्वेन वस्तुग्राहित्वासम्भवात , तत्प्रा.
(१) गौतमसूत्रम् । अ० २ आ० ६ सू०६०।