________________
न्यायमञ्जयाँम् विद्योपरमायैवेति व्याचक्षते, ___ ज्ञातव्य इति प्रतिपत्तिकर्त्तव्यतापरो ऽयं विधिरिति चेन्न, प्रतिपत्तेः प्रमितित्वात्प्रमितेश्च प्रमेयनिष्ठत्वाज्ज्ञातव्य इति कर्मणि च कृत्यप्रत्ययनिर्देशाकर्मणश्चेप्सिततमत्वात्तत्परत्वमेवावागम्यते विधिस्त्वत्र प्रसरन् क प्रसरेत् , फलं तावद्विधेर्न विषय एव, यथाऽऽह भट्टः(१) 'फलांशे भावनायाश्च प्रत्ययो न विधायक' इति, उपायस्तु ज्ञानमेव ज्ञानं च शेयनिष्ठमित्युक्तम् , ___ यस्तु यमनियमादिप्रतिपत्तीतिकर्तव्यताप्रकारोपदेशः सेो ऽपि तथाविधा. त्मरूपाधिगतये सत्यासत्यस्वभावनामरूपप्रपञ्चविलापनद्वारा तत्रोपयुज्यते इति सिद्धतन्त्रमेव साध्यम् ,
तिष्ठतु वा यमनियमप्राणायामप्रत्याहारधारणाध्यात्मज्ञानयोगीतिकर्तव्य ताविधिः अन्येऽपि ज्योतिष्टोमादिविधयस्तनिष्ठा एवेति वेदान्तिनः, साध्यस्यसर्वस्य क्षयित्वेनानुपादेयत्वात्सिद्धस्य ब्रह्मण एवानाद्यविद्यातीतस्यानपायिनः पुरुषार्थत्वात् , स्तोकस्तोकप्रपञ्चविलापनद्वारेणोत्तमाधिकारयोग्यत्वापादनाद् ब्रह्मप्राप्त्योपयिका एव सर्वविधयः, तथा च मनु:
स्वाध्यायेन व्रतहोमस्त्रविद्येनेज्यया सुतैः । महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुरिति(२)। तदेवं सिद्ध एवाणे वेदस्याहुः प्रमाणताम् । सर्वस्तावद्विषयो बहु वक्तव्यः प्रमाणता तु गिराम् ।। किंतन्त्रता भवति कस्य तयारितीयं चचों चिराय न महत्युपयुज्यते नः । सन्तोषवृत्तिमवलम्ब्य वयं हि वेदप्रामाण्यमात्रकथनाय गृहीतयत्नाः ।। प्रामाण्यसाधनविधावुपयोगि यच बक्तव्यमत्र तदवादि यथोपयोगम् । वक्तव्यमिष्टमपि किं चिदिहाभिदध्मस्तच्छूयतां यदि न धीः परिखिद्यते वः ।। इति श्रीजयन्त भट्टकृतौ न्यायमञ्जयाँ चतुर्थमाह्निकम् ॥
(१) लेाकवार्तिके २ सू० २कलो २२२ ननु अभिचारविधिना विहिता हिंसा कथं निषिध्येतेत्यत आह-फलांशे इति । तथा च फलस्याविधेयत्वात् सामान्यतः प्राप्तो निषेधोऽभिचारविधिना फलांशे वारयितुं न शक्यत इत्यर्थः ।
(२) मनुस्मृतिः १०२कलो०२८