________________
प्रमाणप्रकरणम्
२६९ तया ऽवभाति वीतरागस्य च ब्रह्मविदो वित्तैषणव्युत्थितस्य गोविन्दस्वामिन इव निधिरपि हेयतया परिस्फुरतीति कस्मै किमुपदिश्यताम् , वस्तुस्वरूपे तु कथिते यथाहृदयत्तिरागद्वेषानुवतनेन कश्चित्तत्र प्रवर्ततां कश्चित्ततो निवर्त्तता. मिति भूतार्थ कथनमेव लोके प्रेक्षावान करोति न विधिनिषेधौ प्रयोक्तमहतीति,
ये ऽपि ध्रुवते सर्वत्र प्रतिपत्तिकर्त्तव्यताविधानमेवादी वेदितव्यम् अविधिकस्य वाक्यस्य प्रयोगानहत्वादिति ते ऽपि न साधु बुध्यन्ते, विदितशब्दार्थसम्बन्धस्य पुंसः शब्दश्रवणे सति प्रतिपत्तेः स्वतः सिद्धत्वेनानुपदेश्यत्वात् , असिद्धायां वा प्रतिपत्तौ प्रतिपत्तिकर्तव्यतापि कुतः प्रतीयेत । __ ननु कार्यार्थप्रतिपादक पदमन्तरेण पदान्तराणि संसर्गमेव न भजन्ते कार्याकाङ्क्षानिवन्धत्वात्सम्बन्धस्य तेन सर्वत्र कार्यपरत्वम् , उच्यते, नैष नियमः कार्याकाङ्क्षागर्भ एव सर्वत्र सम्बन्ध इति वत्तमानापदेशकानामपि प्रेक्षापूर्वकारिवाक्यानामितरेतरसंसृष्टाथप्रतीतिजनकत्वदर्शनात्, न हि दशदाडिमा दिवाक्यसहशि वर्तमानापदेशीनि वचांसि भवन्ति कायनिबन्धने हि सम्बन्धे तद्रहितानामनन्वय एव स्यात, दर्शितश्चान्वयः पूर्वोदाहृतवाक्यानाम् , अपि च लिङ. न्तपदयुक्त ऽपि वाक्ये पदान्तरार्थानां परस्परमन्वयो दृश्यते एव स कथं समथयिष्यते, कार्याकाङ्क्षानिबन्धने हि कार्य सर्वेषामन्वयो न परस्परमिति । ___ अथ ब्रयात् सर्वथा कार्यसम्बन्धे प्रथममवगते सति पश्चादरुणकहायनी. न्यायेन वाक्यीयः परस्परान्वयो ऽपि सेत्स्यतीति, हन्त तहि परम्परान्वये कार्याकाङ्क्षा कारणं तरुणया पिङ्गाक्ष्या एकहायन्या सोमं क्रीणातीति द्रव्यगुणयोविभक्तया सेामक्रयं प्रति युक्तत्वात्प्रथम क्रयसम्बन्ध एव तयोर्गम्यते यश्च पाश्चात्यः परस्परान्वयस्तत्र कार्यपारतन्त्र्यापादिका विभक्तिरकारणमसत्यामपि तस्यां शुक्लः पट इति सामानाधिकरण्यप्रयोगेणान्वयसिद्धेः, तस्मात्कायॆक्यनिबन्धनो ऽन्वय इति नियमो य उच्यते स कल्पनामात्रप्रभवो न प्रामाणव्यवस्थागम्य इति । ___ यत्तु भूतभव्य समुच्चारणे भूतं भव्यायोपदिश्यतइत्ययमपि न सार्वत्रिको नियमो विपर्ययस्यापि ब्रीहीन्प्राक्षतीत्यादौ दर्शनादलं वा दर्शपूर्णमासप्रकरण. निवेशानुज्झितकार्यमुखप्रेक्षणदेन्यन व्रीहिप्रोक्षणोदाहरणेन,
आत्मा ज्ञातव्य इति तु सिद्धपर एव साध्योपदेशः, नह्यत्र कर्म किं चि. साध्यं प्रधानभुपदिश्यते ऽधिकाराश्रवणात् , न च विश्वजिदादिवदधिकारक. ल्पना का चिदुपदिश्यते न च कमप्रवृत्तिहेतुत्वमात्मज्ञानस्येति वक्ष्यामः, अर्थवा. दस्त्वर्थवाद एव नाधिकारिकल्पनाय प्रभवति, तस्मादपहतपाप्मत्वादिगुणयुक्तात्मस्वरूपनिष्ठत्वमव तत्रावति रते, तस्मिन्नवगते पुरुषान्तरप्रार्थनादैन्यानुपपत्तेः स एव ह्यत्तमः पुरुषार्थः, स च सिद्ध एव न साध्यः, यत्नस्तु कृतबुद्धीनाम