________________
२६८
न्यायमअयाम
वाक्यार्थत्वानुपपत्तेः, न च विषभक्षणवाक्यस्येव परगृहे भोजननिवृत्तौ पौरुषे. यवचसो विवक्षायां तात्पर्यशक्तिरपि प्रभवति, न हि सर्वात्मना ऽभिधात्री शक्तिमवधीयैव तात्पर्यशक्ति: प्रसरतीति न विवक्षापरत्वम् , कथं तहि पुरुषवचनादु. चारिताद् विवक्षाऽवगम इति चेद् अनुमानादिति ब्रूमः, कार्यत्वात्पदरचनायाः पुरुषेच्छापूर्वकत्वमनुमीयते अर्थावगमपुरःसरं च पुरुषवचनाद्विवक्षानुमान. मेवमयं वेद एवमयं विवक्षतीति अर्थोपरागरहितस्य विवक्षामात्रस्य जीवतां निसर्गत एव सिद्धः, अयमों विवक्षित इत्यर्थोपरज्यमाना तु विवक्षा न शक्या ऽर्थे ऽनवगते ऽवगन्तुम् , अर्थश्चत्प्रथममवगतो वाक्यान्न तर्हि तद्विवक्षा. परम्, अर्थपरमेव भवितुमर्हति, लोकवाक्यानां विवक्षापरत्वे बाह्ये ऽणे सम्ब. न्धग्रहणासम्भवाद्वेदादपि वाक्याथोवगमो न स्यादित्यलं प्रसङ्गन, तस्मान्न कार्यपरत्वेनैव शब्दस्य प्रामाण्यम् ।
यत्पुनरभाणि नाख्यातशून्यं वाक्यं प्रयोगाई तेन विना नैराकात्यानु. पपत्तेः आख्यातस्य च भव्यरूपो ऽर्थो न नाम्ना इव भूतो भूतभव्यसमुच्चारणे च भूतं भव्यायोपदिश्यते इति सर्वत्र कार्यपरत्वम, तदपि न सांप्रतम्, पुत्र. स्ते जातः कन्या ते गर्भिणीति सुखदुःखकारिणामनुपदिष्टप्रवृत्तिनिवृत्तिकाना. मनाख्यातानामपि वाक्यानां लोके प्राचुर्येण प्रयुज्यमानत्वात् ।
अथ सुखी भव दुःखी भवेति तत्र कार्यपरत्वं व्याख्यायते तदपि न युक्तम, ईशानामक्षराणामश्रवणात् कल्पनायाश्च निष्फलत्वात , न हि भवेत्यु. पदेशादसौ सुखी भवति सुखीभवितुं वा क चित्प्रवर्तते, उपाये पूर्वमेव प्रवृत्त. त्वात् , उपेये च प्रवृत्त्यनुपपत्तेः, किं तु पुत्रजन्मश्रवणत एवासौ सुखीभवति तथा कस्य चिदुत्तरीयावगुण्ठिततनोनिद्रायमाणस्य क चित्केन चित्केलिना रज्जुवेष्टितवपुषः पश्चात्प्रबोधसमये सहसा सरीसृपवलितमात्मानं मन्यमानस्य भयादनुन्मीलितचक्षुषः केन चित्प्रयुज्यमानं रज्ज्वा वेष्टितो ऽसीति वचः श्रवण पथमवतरति तत्सिद्धार्थबोधकमपि प्रमाणम्, न च तत्र मा भैषीरिति प्रयोगकल्पनाप्रयोजनम् रज्जुवेष्टनप्रत्ययादेव भयनिवृत्तः सिद्धत्वात् , तथा च विषमविषधराधिष्ठितो ऽयमध्वा निधियुक्तो ऽयं भूभाग इति भूतार्थख्यापकं वचे। दृश्यते न च तदप्रमाणम्, न च तत्र मा गास्त्वमनेनाध्वना निधि गृहाणेति वि. धिनिषेधपरत्वं युक्तम् , एषां पदानामश्रवणात् । ____ननु वक्तः प्रेक्षापूर्वकारितया निष्प्रयोजनवचनानुचारादवश्यं मा गा गृहाणेति कार्याक्षराणि हृदये परिस्फुरन्ति कथं चिदालस्यादिना नोश्चारितानीति, नैतद्युक्तम् , प्रेक्षापूर्वकारित्वादेव वक्तः यथावस्थितवस्तुस्वरूपमात्राख्यापकवचनोच्चारणमेव युक्तम् , अर्थात्प्रवृत्तिनिवृत्त्याः सिद्धत्वात् , पराभिप्रायस्य चानवस्थितत्वेन नियतोपदेशानुपपत्तेः, सर्पबन्धजीविना हि सपन्नगः पन्था उपादेय