________________
प्रमाणप्रकरणम्
२६७
अस्येदं नामेत्येषामेवाक्षराणामेषो ऽर्थ इति चेद् न, अपदार्थस्य वाक्यार्थत्वायोगात् , न चैवं कल्पयितुमपि शक्यते अस्येदं नामेत्येतावतैव च तत्प्रतिप. त्तिसिद्धेः प्रतिपत्तिकर्त्तव्यताभिधानस्य निष्प्रयोजनस्वात, कार्यपरादपि शब्दाद् व्युत्पत्तिर्भवन्ती न वाक्यार्थमात्रपर्यवसायिनी भवति किं त्वेकैकपदादावापोद्वापद्वारकपदार्थपर्यन्ता सा भवति पदार्थव्युत्पत्तिसंस्कृतमतेश्वामिनवकविविरचित. वर्तमानापदेशश्लोकश्रवणे ऽपि वाक्यार्थप्रतीतिदृश्यते एवेति नाव्युत्पत्तिकृतमप्रामाण्यम् , न चासौ भूतार्थप्रतिपादकशब्दजनिता प्रतीतिर्बाध्यते संदिग्धा वा तेन प्रत्यक्षादिप्रमाणान्तरकरणकप्रतीतिवत्प्रमाणफलमेव सा भवि. तुमहति । ___ यत्पुनरभ्यधायि कार्ये ऽर्थे प्रमाणान्तरनिरपेक्षतया प्रमाणं भवति शब्दः न सिद्धे ऽर्थ प्रमाणान्तरसापेक्षत्वादिति तदसत् , प्रवतयितुमेव न शक्नोति इत्यवोचाम वक्ष्यामश्च वाक्याथचिन्तायामपि, प्रमाणान्तरसापेक्षत्वं तस्य प्रत्युत प्रामाण्यमावहति, किं चेदं सापेक्षत्वमिति वक्तव्यम्, कि सिद्धार्थाभिधायिनः शब्दस्योत्पत्तावेव प्रामाणान्तरापेक्षत्वम् उत तद्विषयस्य प्रमाणान्तरप. रिच्छेदयोग्यत्वमित्युभयथा ऽतिप्रसङ्गः, उत्पत्तौ प्रमाणान्तरसव्यपेक्षतया यद्यप्रामाण्यं वण्यते हन्त हतमनुमानं तस्योत्पत्तो प्रत्यक्षादिसापेक्षत्वात् , वर्णितं च तत्पूर्वकं त्रिविधमनुमानमिति, तद्विषयस्य प्रमाणान्तरग्रहणयोग्यतायां तु तदप्रामाण्ये प्रत्यक्षादीनां सर्वेषामप्रामाण्यं प्राप्नोति प्रमाणसंप्लवस्य प्राक प्रतिपादितत्वात , अपि च विधियुक्तेष्वपि वैदिकेषु लौकिकेषु वाक्येष्वधीष्व गां बधान ग्रामं गच्छेत्येवमादिष्वन्वयव्यतिरेकाभ्यां हिताहितप्राप्तिपरिहारसाधनसामर्थ्यावगमेन प्रवृत्तिसिद्धेः विनियोगमात्रनिष्ठ एव विधिर्भवति, अप्रवृत्तप्रवसनात्मक. निरपेक्षनिजव्यापारवैधुर्यात्कार्यपरत्वानुपपत्तेः अनुवादमानं विधिवचनमिति कार्यार्थप्रामाण्यवादिनां सर्वमेव लौकिकं वाक्यमप्रमाणं स्यात् ।
ये तु भूतावादिषु प्रवृत्तिनिवृत्तिकारिषु विधिनिषेधो कल्पयन्ति ते नित. रामृजवः, भूयमाणेो ऽपि विधिरनुवादीभवति यत्र तत्राश्रतः कल्प्यते इति किमन्यदेतत्परमार्जवम् , प्रवृत्तौ तु तत्र विधिरप्रयोजक एव अन्वयव्यतिरेकाभ्यां पुरुषार्थसाधनसामर्थ्यावगमात्पुरुषप्रत्ययाद्वा लोकेषु प्रवृत्तिसिद्धेः, तत्रैतस्यात् लोकिकवाक्यानां विवक्षापरत्वान्न कायोर्थत्वम्,
अपि च पौरुषेयाद्वचनादेवमयं पुरुषो वेदेति भवति प्रत्ययो नैवमर्थप्रतीतिः, वैदिकानि पुनरपौरुषेयतया कार्यपराण्येव वाक्यानीति एतदपि न पेशलम , अपौ. रुषेयस्य वचसः प्रतिक्षिप्तत्वात् , वेदे ऽपि कर्तुः ईश्वरस्य साधितत्वात, न च पुरुषवचनमपि विवक्षापरमिति दर्शितम् , तथा हि न विवक्षा वाक्यार्थों देवदत्त गा. मभ्याज कृष्णां दण्डेनेति पदग्रामे विवक्षावाचिनः पदस्याश्रवणात् , अपदार्थस्य