________________
२६६ . न्यायमचर्याम्
वेदप्रामाण्यसिद्धयर्थमित्थमताः कथाः कृताः । न तु मीमांसकख्याति प्रप्तास्मीत्यभिमानतः ।।
कायें एवार्थे पदसङ्गतिग्रह:नन्वेवं विध्यर्थवादमन्त्रनामधेयानां कार्योपयिकत्वदर्शनात्कार्यएवार्थे वेदः प्रमाणमित्युक्तं स्यात् , ततः किं सिद्धे ऽर्थे तस्य प्रामाण्यं हीयते, ततोपि किं भूयान्भूतार्थाभिधायिग्रन्थराशिरुपेक्षितो भवेत, सकलस्य च वेदस्य प्रामाण्यं प्रतिष्ठापयितुमेतत्प्रवृत्तं शास्त्रम् , अत्र के चिदाहुः, सर्वस्यैव वेदस्य कार्ये ऽर्थे प्रामाण्यम् , तथा हि, गृहीतसम्बन्धः शब्दो ऽर्थमवगमयति सम्बन्धग्रहणं चास्य वृद्धव्यवहारात, वृद्धानां च व्यवहारःपानीयमानय गांबधान ग्रामंगच्छति कार्यप्रतिपादकैरेव शब्दैः प्रवर्त्तते इति तत्रैव व्युत्पद्यन्ते बालाः, प्रयोजनोद्देशेन हि वृद्धा वाक्यानि प्रयुखते, न च सिद्धार्थाभिधायिना प्रवृत्तिनिवृत्ती अनुपदिशता शब्देन किं चित्प्रयोजनमभिनिवर्ततइति तस्य न प्रयोगयोग्यत्वम्, अप्रयुज्य. मानस्य च न सम्बन्धग्रहणम् अगृहीतसम्बन्धस्य च न प्रतिपादकत्वम् अप्रतिपादकस्य च न प्रामाण्यम् , अपि च आख्यातपदोच्चारणमन्तरेण निराकाङ्क्षप्रत्ययानुत्पादादवश्यमाख्यातयुक्तं वाक्यं प्रयोक्तव्यम, आख्यातपदेन साध्यरूपोऽर्थ उच्यते नामधेयपदेन च सिद्धः, भूतभव्यसमुच्चारणे भूतं भव्यायोपदिश्यते इति वाक्यस्य साध्यार्थनिष्ठतेति न भूतार्थविषयं तस्य प्रामाण्यम, अतश्च कार्ये ऽर्थे शब्दस्य प्रामाण्यम, यतश्च कार्यरूपो ऽर्थः शब्दस्यैव विषय इति, न च शब्दः प्रमाणतां सिद्धे ऽथ लभते सिद्धो ऽर्थः प्रसिद्धत्वादेव प्रमाणान्तरपरिच्छेदयोग्य इति तत्प्रतिपादने तत्प्रमाणान्तरसव्यपेक्षः शब्दो भवति, ततश्च तद्ग्राहिण: प्रमाणान्तरस्यैव तत्र प्रामाण्यं स्यान्न शब्दस्य, शब्दश्च तदुपस्थापनमात्रनिष्ठ एव स्यात्, तस्माच्छब्दप्रामाण्यमिच्छता कार्ये एवार्थे तत्प्रामाण्यमङ्गीकर्तव्यमिति ।
अकार्येऽपि पदसङ्गतिग्रहोपपादनम् अत्रोच्यते, यद् षे कार्यएवार्थे वाक्यस्य व्युत्पत्तिरिति तदयुक्तम् , एवं हि सिद्धरूपो ऽयं तस्यार्थ इति कथं त्वयोच्यते, न हलब्धव्युत्पत्तेः शब्दादर्थप्रत्ययो युज्यते, अर्थप्रतीतिश्च ततो दृश्यते व्युत्पत्तिश्च तत्र नास्तीति चित्रम्, न च कार्यपरैरेव शब्दैः लोके व्यवहारो वर्तमानापदेशकेभ्योऽपि व्यवहारप्रवृत्ते. स्तत्रापि व्युत्पत्तिभवत्येव, अपि चागुल्यादिना पुरोऽवस्थितमर्थ निर्दिश्य यदा कश्चित्कथयत्यस्येदं नामेति तदा कार्योपदेशमन्तरेणापि भवत्येव व्युत्पत्तिः, अस्माच्छब्दादयमर्थः प्रतिपत्तव्य इति कार्योपदेश एवासौ इति चेत् तादृशानामक्षराणामश्रवणात् , अस्येदं नामेति हि श्रूयते नास्मादयं प्रतिपत्तव्य इति,