SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ प्रमाणपकरणम् २६५ प्रति यजिरप्राप्तत्वाद्विधीयते गुणं च प्रति प्राप्तत्वादन्यते, अनवगते हि कर्मणि गुणविधानमघटमानमित्यवश्यं गुणविधिपक्षे गुणं प्रति यजिः प्राप्तत्वादुद्देश्या भवति प्रधानं च, स एव स्वाराज्यं प्रति विधेयत्वादुपादेयो गुणश्चेति विरुद्धरूपापत्तेर्न यजिरुभाभ्यां युगपत्संबन्धुमर्हति यः स्वाराज्यं साधयितुमिच्छेत् स यजेतेत्यन्यद्रूपम्, यद्यजेत तद्वाजपेयेनेत्यन्यपडूम्, तस्माद्भावार्थ प्राप्तौ प्रमाणान्तरापेक्षणाद् गुणविधिपते तदप्रमाणं वचनम्, अथैष दोषो मा भूदिति नामधेयपक्ष आश्रीयते तदैषामुद्भिदादिपदानां विस्पष्टमेवानर्थक्यम्, यावदेवेाक्तं भवति यजेतेति तावदेव वाजपेयेनेति, एवमानर्थक्यादन्यत्राप्यस माश्वासः । नामधेयप्रमाण्याक्षेप निरासः च्यते गुणविधिपते यथा भवानाह तथैव नामधेयपक्ष एव तु श्रेयानित्यभ्युपगम्यते, तथा हि, भावार्थस्य फलं प्रति करणत्वात्तत्सामानाधिकरण्येन तृतीया प्रयुज्यते तत्र वाजपेयेनेति, साध्यश्च भवन्भावार्थः करणभावमनुभवतीति साध्यत्वापेक्षया तत्सामानाधिकरण्येन क चिद् द्वितीया ऽपि प्रयुज्यते अग्निहोत्रं जुहोतीति । " ननु गुणवन्नामापि विधातव्यमेवानभिहितस्यानवगमात् ततश्च गुणवधिपस्पृश वाक्यभेदादिदोषास्तदवस्था एव, नैतदेवम्, न ह्यस्य कर्मण इदं नाम वेदितव्यमिति संज्ञासंज्ञिसंबन्धं वेदो विदधाति योगेन तु केन चित्प्रवर्त्त - मानं नामधेयमवगम्यते एव, उद्भेदनमनेन पशूनां क्रियते इत्युद्भिदिदम्, दधि मधुघृतं धाना उदकं तत्संसृष्टं प्राजापत्यमिति नानाविधविचित्रद्रव्यसाध्यत्वाचित्रा अग्नये होत्रमस्मिन्नित्यग्निहोत्रं यथैव श्येना निपत्यादत्ते एवमनेन द्विषन्तं भ्रातृव्यमादत्ते इत्यर्थवादात् श्येन एव श्येना यागः वाजमन्नं पीयते ऽस्मि - त्रिति वाजपेय यागः, तस्मात्कर्मनामान्येतानि । " यत्तु नामधेयपक्षे नैरर्थक्यमाशङ्कितं तदपि न चारु, नामापि गुणफलापलब्ध अर्थवदिति अभियुक्तैः परिहृतत्वात् एवंनामेदं कर्मेत्यवगम्यते तत्र गुणे द्रव्यदेवतादिः फलं च तस्य स्वर्गः पश्चादवगम्यते इति, तस्मान्नामधेयपदानामविरुद्धो ऽन्वयः कचित्पुनरप्राप्ते भावार्थे सगुणमेव तत्कर्म चोद्यते यथा श्रग्नेयो ऽष्टाकपालेो ऽमावास्यायां पौर्णमास्यां चाऽच्युतो भवति इति, यथा वा एतस्यैव रेवती वारवन्तीयसग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेतेति, अलं शास्त्रान्तरोक्तगहनकथाविस्तरेण इति नास्ति नामधेयद्वारेणापि प्रामाण्याक्षेपः सर्वप्रकारमेव सिद्धं वेदप्रमाणत्वमिति । ३४ न्या०
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy