________________
१२८
न्यायमअम् नाभावादतः पूर्वक्रमेणैव सिद्धान्तस्य सामान्यलक्षणवर्णनं श्रेयः । तस्य स्वकण्ठेन विभागमाहस चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्या
न्तरभावात् ॥ (गौतममूत्रम् अ.१ आ० १ सू० २७)
चतुष्प्रकारो हि सिद्धान्तः सर्वतन्त्रसिद्धान्तः प्रतितन्त्रसिद्धान्तोऽधिकरण सिद्धान्तः अभ्युपगमसिद्धान्तः । तत्रसर्वतन्त्राविरुद्धः स्वतन्त्रेऽधिकृतोऽर्थः ( सर्वतन्त्रसिद्धान्तः१)॥
(गौतमसूत्रम् अ० १ आ० १ सू० २८) अत्र तन्त्रशब्देन शास्त्रमुच्यते, स्वशास्त्र य उपदिष्टोऽर्थः सर्वशास्त्राविरुद्धश्च स सर्वतन्त्रसिद्धान्तः, यथा चाक्षुषं प्रमाणमिति, "नन्वत्रापि विवदन्ते ब्रह्मवादिनां हि सर्व वेयमविद्या अविद्या च कथं प्रमाणमिति" न व्यवहारावस्थायां तैरपि तत्प्रामाण्याभ्युपगमात् , संख्यालक्षणविषयविप्रतिपत्तिस्तु प्र. तिशास्त्रं भवतु, चाक्षुषं प्रमाणमितीयति सर्ववादिनामविवादः । समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः ॥
(गौतममूत्रम् अ० १ श्रा० मू० २६ ) तन्त्रेऽधिकृतोऽर्थ इति वर्तते, यथाऽस्माकमीश्वरेच्छाप्रेरितपरमाणुनिर्मिता. नि पृथिव्यादीनि समानतन्त्रे कणव्रतमते तथैव सिद्धानि परतन्त्रे च सांख्यादि. शाने तथा नाभ्युपगम्यन्त इति , यथा वा गुणत्रयात्मिकायाः प्रकृतेर्महदहकारादिक्रमेण भूतसर्ग इति सांख्यानां स्वतन्त्रसिद्धोऽर्थः समानतन्त्रेऽपि पातखले योगशास्त्रे सिद्ध एव परतन्त्रे तु वैशेषिकादिमते न सिद्ध इति । "नन्वस्य कथं प्रमाणमूलता?" स्थाने प्रश्नः सत्यमेतत् प्रास्माकीने हि प्रतितन्त्रसिद्धान्ते प्रमा. णमूलत्वं यथार्थमेव सांख्यसिद्धान्तस्तु प्रमाणमूलवाभावेऽपि परतन्त्रत्वख्या. पनायोदाहृतः तदभिप्रायेण मूलता वक्तव्येति । यत्सिदावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः॥
(गौतमसूत्रम् अ० १ आ० १ सू० ३०) प्रक्रियते इति प्रकरणं पक्ष उच्यते, यस्यार्थस्य सिद्धौ सत्यां प्रकरणान्तरसिद्धिर्भवति सोऽधिकरणसिद्धान्तस्तदधिकरणानामर्थान्तराण सिद्धेः।। - "कः पुनर्यसिद्धाविति सर्वनाम्ना प्रत्यवमृश्यते पक्षो हेतुर्वा ? किं चातः, पक्षः कथं पक्षान्तरसिद्धये कल्पते, हेतुना हि पक्षसिद्धिः क्रियते पक्षण,