________________
प्रमाणप्रकरणम्
बहुलनिशीथे सहसैव स्फुरता विद्युल्लतालोकेन कामिनीज्ञानमादधानेन तज्जन्म. नि सातिशयत्वमवाप्यते, एवमितरकारककदम्बसन्निधाने सत्यपि सीमन्तिनी. मन्तरेण तदर्शनं न सम्पद्यते, आगतमात्रायामेव तस्यां भवतीति तदपि कर्म कारकमतिशययोगित्वात्करणं स्यात्तस्मात्फलोत्पादाविनाभाविस्वभावत्वमवश्यतया कार्यजनकत्वमतिशयः, स च सामग्रयन्तर्गतस्य न कस्य चिदेकस्य कार• कस्य कथयितुं पार्यते, सामप्रयास्तु सो ऽतिशयः सुवचः सन्निहिता चेत्सामग्री सम्पन्नमेव फलमिति सैवातिशयवती । - ननु मुख्ययोः प्रमातृप्रमेययोरपि तदविनाभावित्वमतिशयोऽस्त्येव प्रमितिसम्बन्धमन्तरेण. तयोस्तथात्वाभावात, प्रमिणोतीति प्रमाता भवति प्रमीयते इति च प्रमेयम् , सत्यमेतत्-किंतु साकल्यप्रसादलब्धप्रमितिसंबन्धनिबन्धनः प्रमातृप्रमेययोमुख्यस्वरूपलाभः साकल्यापचये प्रमित्यभावागौणे पमातृपमेये सम्पद्यते, एवं च साकल्यमन्तरेण पमितितमबर्थयोगात्तदेव करणम् ।
यत्त किमपेक्षं सामग्रयाः करणत्वमिति तदन्तर्गतकारकापेक्षमिति बमः, कारकाणां धर्मः सामग्री न स्वरूपहानाय तेषां कल्पते साकल्यदशायामपि तस्वरूपपत्यभिज्ञानात् ।।
ननु समग्रेभ्यः सामग्री भिन्ना चेत्कथं पृथङ् नोपलभ्यते, अभेदे तु सर्वकारकाणि करणीभूतान्येवेति कर्तृकर्मव्यवहारोच्छेदपसङ्गः, मैवम्--समप्र सन्निधानाख्यधर्मस्य प्रत्यक्षमुपलम्भात् , पृथगवस्थितेषु हि स्थालीजलज्वलनतण्डुलादिषु न समप्रतापत्ययः समुदितेषु तु भवतीत्यतस्तन्तुपटलपरिघटितघटा. द्यवयविवत्कारककलापनिष्पाद्यद्रव्यान्तराभावे ऽपि समुदायात्मिका सामग्री विद्यते एवेति समुदाय्यपेक्षया करणवां पतिपद्यते तस्मान्न परिचोदनीयमिदं कस्मिन्कर्मणि सामग्री करणमिति, समुदायिनां सामप्रयवस्थायामपि स्वरूपानपायात् समुदायिविशेषे कर्मणि सामग्री करणम्, अत एव न पमितेनिरालम्बनत्वम् , एतेन पमाता पृथगुपदर्शित इति विधाचतुष्टयमपि समाहितम् । ___यत्त्वभ्यधायि सामग्रयाः करणविभक्तिनिर्देशो न दृश्यते इति तत्रोच्यतेसामग्री हि संहतिः सा हि संहन्यमानव्यतिरेकेण न व्यवहारपदवीमवतरति तेन सामग्री पश्यामीति न व्यपदेशः, यस्तु दीपेन्द्रियाणां तृतीयानिर्देशः स फलो. पजननाविभाविस्वभावत्वाख्यसामग्रीसरूपसमारोपणनिबन्धनः, अन्यत्रापि च तद्पसमारोपेणे स्थाल्या पचतीति व्यपदेशा दृश्यते एव, तस्मादन्तर्गतकार: कपिक्षया लब्धकरणभावा सामग्री पमाणम् ।
अपरे पुनराचक्षते, सामग्री नाम समुदितानि कारकाणि तेषां द्वैरूप्य महृदयङ्गमम् , अथ च तानि पृथगवस्थितानि कर्मादिभावं भजन्त, अथ च तान्येव समुदितानि करणीभवन्तीति कोऽयं नयः, तस्मात्कर्तृकर्मव्यतिरिक्त