SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ १४ न्यायमञ्जर्याम् मध्यभिचारादिविशेषणकार्थप्रमाजनक कारक करणमुच्यते, तदेव च तृतीयया व्यपदिशन्ति, दीपेन पश्यामि चक्षुषा निरीक्षे लिङ्गेन बुध्ये शब्देन जानामि मनसा निश्चिनोमीति । ननु त्रीण्येव कारकाण्यस्मिन् पक्षे भवेयुः ज्ञानक्रियायां तावदेवमेवैतधथा भवानाह, पाकादिक्रियासु क्रियाश्रयसाधारणायुपकारभेदपोलोचनया. भवत्वधिकरणादिकारकान्तरव्यवहारः पमितो तु मनोदीपचक्षुरादेन लक्ष्यते विशेष इति तत्सर्व कारणत्वेन सम्मतम्, कस्तेषु तमबर्थ इति चेत्, अस्ति कश्चिद् यदयं लोकोऽहं मया जानामि घटेन घटं जानामि इति न कर्तृकर्मणी विस्मृत्यापि करणत्वेन व्यपदिशति, नयनमनोदीपशब्दलिङ्गादीनि तु तथा व्यपदिशति सोऽयमेषां पश्यति कर्तृकर्मवेलक्षण्यं चक्षुरादीनाम, तद्वैलक्षण्यमेव च तेषामतिशय इति तदयमिह पमाणं पमाता पमेयं पमितिरिति चतुर्वर्गेणैव व्यवहारः परिसमाप्यते, तस्मात्कर्तृकर्मविलक्षणा संशयविपर्ययरहितार्थबोधविधायिनी बोधाबोधस्वभावा सामग्री प्रमाणमिति युक्तम् । बौद्धाभिमतप्रमाणपरीक्षणम् - ये तु बोधस्यैव प्रमाणत्वमाचक्षते न सूक्ष्मदर्शनास्ते बोधः खलु प्रमाणस्य फलं न साक्षात्प्रमाणम्, करणाथोभिधानो हि प्रमाणशब्दः प्रमीयतेऽ. ऽनेनेति प्रमाणम् , प्रमीयते इति कोऽर्थः प्रमा जन्यते इति, प्रमाणादवगच्छाम इति च वदन्तो लौकिकाः करणस्यैव प्रामाण्यमनुमन्यन्ते, यस्तु प्रमा प्रमाणमिति प्रमाणशब्दः स प्रमाणफले द्रष्टव्यः, तथा च संशयविपर्ययात्मकं प्रमाण. फलमिति ज्ञानमात्ममनोऽनुमाने तद्विशेषणार्थपरिच्छेदे वा विशिष्टप्रमाणजननात्प्रमाणतां प्रतिपद्यते, अव्यभिचारादिविशेषणोपपन्नमपि ज्ञानमफलजनकमप्रमाणमेव प्रमाणमुच्यते तदयुक्तम्-सकलजगद्विदितबोधेतरस्वभावशब्दलिङ्गदीपेन्द्रियादिपरिहारप्रसङ्गात, तस्मात्सामग्रयनुप्रविष्टबोधो विशेषणज्ञानमिव क चित्प्रत्यक्ष लिङ्गज्ञानमिव लिङ्गिप्रमितो सारूप्यदर्शनमिवोपमाने शब्दश्रवणमिव तदर्थज्ञाने प्रमाणतां प्रतिपद्यते, अत एव बोधाबोधस्वभावा सामग्री प्रमाणमित्युक्तम् । अन्ये तुल्यसामग्रयधीनयोज्ञानार्थयोपाद्यग्राहकभाव वदन्तो बोधं प्रमाणमभ्युपागमन, क्षणभङ्गिषु पदार्थषु सहकायुपादानकारणापेक्षक्षणान्तरसन्ततिज. ननेन च लोकयात्रामुद्हत्सु ज्ञानजन्मनि ज्ञानमुपादानकारणम् अर्थः सहकारिकारणम् अर्थजन्मनि चार्थ उपादानकारणं ज्ञानं सहकारि कारणमिति, झानं च ज्ञानार्थजन्यमर्थश्वार्थज्ञानजन्यो भवतीत्येवमेकसामग्रयधीनतया तमर्थमव्यभिचरतो ज्ञानस्य तत्र प्रामाण्यमिति,
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy