________________
न्यायमञ्जर्याम्
अपवर्गपरीक्षाशेषभूतत्वात्तु तदवसरे एव निर्णयिष्यते(१)।
प्रमाणलक्षणम् । प्रमाणसामान्यलक्षणं विभागसूत्रे त्ववसरप्राप्तत्वादिदानीमेव वित्रियते
प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि(२) ॥ इति अत्रेदं तावद्विचार्यते, किं प्रमाणं नाम,किमस्य स्वरूपं किं वा लक्षण. मिति, ततः तत्र सूत्रं योजयिष्यते, तदुच्यते, अव्यभिचारिणीमसन्दिग्धामथोपलब्धिं विद्धती बोधाबोधस्वभावा सामग्री प्रमाणम्, बोधाबोधस्वभावा हि तस्य स्वरूपम्, अव्यभिचारादिविशेषणार्थोंपलब्धिसाधनत्वं लक्षणम् ।
ननु च प्रमीयते येन तत्प्रमाणमिति करणसाधनो ऽयं प्रमाणशब्दः, करणं च साधकतमं तमबर्थश्चातिशयः, स चापेक्षिकः साधकान्तरसम्भवे हि तदपेक्ष. यातिशययोगारिक चित्साधकतममुच्यते, सामग्रयाश्चैकत्वात्तदतिरिक्तसाधका. न्तरानुपलम्भात्किमपेक्षमस्या अतिशयं ब्रूमः, अपि च कस्मिन्विषये सामग्रयाः प्रमाणत्वम्, प्रमीयमाणो हि कर्मभूतो विषयः सामग्रयन्तरीभूतत्वात्सामप्रये. वेति करणतामेव यायात्, निरालम्बनाश्चेदानीं सर्वप्रमितयो भवेयुरालम्बनकारकस्य चक्षुरादिवत्प्रमाणान्तःपातित्वात्, कश्च सामग्रया पमेयं प्रमिमीते, प्रमा. तापि तस्यामेव लीनः, एवं च यदुच्यते प्रमाता प्रमाणं प्रमेयं प्रमितिरिति चतसृषु विधासु तत्त्वं परिसमाप्यते इति तव्योहन्यते, न च लोको ऽपि सामप्रचाः करणभावमनुमन्यते तस्यां करणविभक्तिमप्रयुञ्जानः, न होवं वक्तारो भवन्ति लौकिकाः सामग्रया पश्याम इति किं तु दीपेन पश्यामः चक्षुषा निरी. क्षामहे इत्याचक्षते, तस्मान्न सामग्री करणमकरणत्वाच्च न प्रमाणमिति नेदं साधु प्रमाणस्वरूपम्
अत्रोच्यते-यत एव साधकतमं करणं करणसांधनश्च प्रमाणशब्दः तत एव सामग्रयाः प्रमाणत्वं युक्तम् , तव्यतिरेकेण कारकान्त. रेक चिदपि तमबर्थसंस्पर्शानुपपत्तेः, अनेककारकसन्निधाने कार्य घटमानम. न्यतरव्यपगमे च विघटमानं कस्मै अतिशयं प्रयच्छेत् , न चातिशयः कार्यज. न्मनि कस्य चिदवधार्यते सर्वेषां तत्र व्याप्रियमाणत्वात्, सन्निपत्य जनकत्वमतिशय इति चेन्न-आरादुपकारकाणामपि कारकत्वानपायात्, ज्ञाने च जन्ये किमसन्निपत्य जनकं सर्वेषामिन्द्रियमनोऽर्थादीनामितरेतरसंसर्गे सति ज्ञाननिष्पत्तः, अथ सहसैव कार्यजननमतिशयः, सो ऽपि कस्यां चिदवस्थायां करण. स्येव कर्मणोपि शक्यते वक्तुम् , अविरलजलधरधाराप्रबन्धबद्धान्धकारनिवहे
(१) निणेष्यते इति युक्तः पाठः । (२) गो० सू० अ० १ आ० १ २० ॥