________________
प्रमाण प्रकरणम्
११
शक्यक्रियम्, अतस्तान्यपि जल्पवितण्डाङ्गत्वाज् ज्ञातव्यानीति पृथगुपदिश्यन्ते । दुःशिक्षित कुतर्कांशलेशवाचालिताननाः । शक्याः किमन्यथा जेतुं वितण्डाटोपपण्डिताः ॥ गतानुगतिको लोकः कुमार्ग तत्प्रतारितः । मा गादिति च्छलादीनि प्राह कारुणिको मुनिः ॥ तदेवमुपदेष्टव्याः पदार्थाः संशयादयः । तन्मूलन्यायनिर्णेय वेदप्रामाण्यसंविदे || तेनागमप्रामाणत्वद्वाराऽऽखिल फलप्रदा । इमान्वीक्षिकीविद्या विद्यास्थानेषु गण्यते ॥
आह च भाष्यकारः
प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् । आश्रयः सर्वधर्माणां विद्योद्देशे परीक्षितेति ।।
इत्येष षोडशपदार्थनिबन्धनेन निः श्रेयसस्य मुनिना निरदेशि पन्थाः । अन्यस्तु सन्नपि पदार्थगणो ऽपवर्गमागोंपयोगविरहादिह नोपदिष्टः ॥
शास्त्रप्रवृत्तित्रैविध्यम् ।
त्रिविधा चास्य शास्त्रस्य प्रवृत्तिरुद्देशो लक्षणं परीक्षेति, नामधेयेन पदार्थाभिधानमुद्देशः, उद्दिष्टस्य तत्त्वव्यवस्थापको धर्मों लक्षणम्, लक्षितस्य तलक्षणमुपपद्यते न वेति विचारः परीक्षा ।
ननु च विभागलक्षणा चतुर्थ्यापि प्रवृत्तिरस्त्येव भेदवत्सु प्रमाण सिद्धान्तच्छलादिषु तथा व्यवहारात्, सत्यम् - प्रथमसूत्रोपदिष्टे मेदवति पदार्थे भवत्येव विभागः उद्देशरूपानपायात्तु उद्देश एवासौ, सामान्य सन्ज्ञया कीर्तनमुद्देशः प्रकारभेदसन्ज्ञया कीर्तनं विभाग इति, तथा चोद्देशतयैव तत्र तत्र भाष्यकारो व्यवहरति अयथार्थः प्रमाणोद्देश इत्याक्षेपे तस्माद्यथार्थ एव प्रमाणोद्देश इति च समाधानमभिदधानः, तस्मात्त्रिविधैव प्रवृत्तिः, तत्रोद्देशः प्रथममवश्यं कर्त्तव्यः अनुद्दिष्टस्य लक्षणपरीक्षानुपपत्तेः, सामान्यविशेषलक्षणयोरपि पौर्वापर्य - नियमोऽस्त्येव, अलक्षिते सामान्ये विशेषलक्षणावसराभावात्, परीक्षा तु लक्ष.. णोत्तरकाल भाविनीति तत्स्वरूपनिरूपणादेव गम्यते विभाग सामान्यलक्षणयोस्तु नास्ति पौर्वापर्यनियमः, पूर्व वा सामान्यलक्षणं ततो विभागः पूर्व वा विभागः ततः सामान्यलक्षणमुच्यते इति, तदिहोद्देशस्तावद्वयाख्यातः, अस्माभिस्तु लक्षणसूत्राण्येव व्याख्यास्यन्ते, परीक्षासूत्रसूचितं तु वस्तु सोपयोगलक्षणवर्णनावसरे एव यथाबुद्धि दर्शयिष्यते, न पृथक्परीक्षासूत्रविवरणश्रमः करिष्यते, प्रथमसूत्रानन्तरं दुःखजन्मेत्यादि द्वितीयं सूत्रं लक्षणानौपयिकत्वान्नेह विवृतम्,