________________
न्यायमअर्याम्
तर्कः संशयविज्ञानविषयीकृततुल्यकल्पपक्षद्वयान्यतरपक्षशैथिल्यसमुत्पाद नेन तदितरपक्षविषयं प्रमाणमक्लेशसम्पद्यमानप्रतिपक्षव्युदासमनुगृह्णाति मार्गशुद्धिमादधान इति पृथगुपदिश्यते, स चाशयशुद्धिमुपदर्शयितुं वादे प्रयोच्यते इति अन्यतराधिकरणनिर्णयमन्तरेण न पर्यवस्यति न्यायोपरमकारणत्वेन तस्य प्रवसको निर्णय इतरथा निरवसानमनासादितफलं को नाम न्यायमारभेत ।
ननु तत्त्वज्ञानपदेन गतार्थत्वान्न पृथग्वक्तव्यो निर्णयः निर्णयो हि तत्त्वज्ञानमेव, अस्त्येतत् , किं तु षोडशपदार्थतत्त्वज्ञानं प्रमाणान्तरकरणकमपि भवति न तस्य म्यायोपरमहेतुत्वमेष तु साधनदूषणसरणिक्षोदजन्मा निर्णयस्तदुपरमहेतुः पृथगुपादानमन्तरेण न लभ्यते ।
नन्वनुमानपदादेव तर्हि यथाभिलषितो लप्स्यते निर्णयः, सदयुक्तम् - अनु मानफलं निर्णयो नानुमानम् , करणस्य प्रमाणत्वाग्निर्णयोपादानमन्तरेण तदनुमानमफलमपर्यवसितं स्यात् , उभाभ्यां तर्हि तत्त्वज्ञानानुमानपदाभ्यामयमाक्षेप्स्यते निर्णयः, अनुमानस्य तत्त्वज्ञानन्तत्वात् , न-निर्णयोपादानाद्विना तदन्तत्वासिद्धः लिङ्गामाससमुत्थतत्त्वज्ञानाभाससम्भवात्।
ननु संशयपूर्वकत्वादानुमानस्य सामथ्यान्निर्णयान्ततव भविष्यति इति संशयानुमानतत्त्वज्ञानपदैर्गतार्थों निर्णयः, मैवम्-संशयपूर्वकत्वे ऽप्यनुमा. नस्य तदाभासोपजनितनिर्णयाभाससम्भवात् , न चैष नियमः संशयपूर्वकम. नुमानमिति, तस्मादनुमानस्य विशिष्टनिर्णयावसानत्वलाभाय निर्णयपदमुपादेयमित्यलं प्रसङ्गेन ।
वादे तु विचार्यमाणे न्यायः संशयच्छेदनेनाध्यवसितावबोधमध्यवसिताभ्यनुज्ञातं च विधत्तत्त्वपरिशुद्धिमादधातीति वीतरागैः शिष्यसब्रह्मचारिभिः सह वादः प्रयोक्तव्यः।
जल्पवितण्डे तु दुष्टतार्किकोपरचितकपटदूषणाडम्बरसन्त्रास्यमानसरल. मतिसमाश्वासनेन तद्धृदयस्थतत्त्वज्ञानसंरक्षणाय क चिदवसरे वीतरागस्याप्यपयुज्यते इति वक्ष्यामः, ___ हेत्वाभासाः सम्यग्न्यायप्रविवेकोपकारद्वारेण तदुपयोगिनो हेत्वाभासस्व. रूपावधारणे हि सति तद्विलक्षणतया हेतवस्सुखमवगम्यन्ते ।
नन्वत्र विपर्ययो दृश्यते हेत्ववगमे सति तदितरहेत्वाभासव्यवस्थापनात् , सत्यमेवम्-तथा ऽपि प्रयोक्तच द्वयमपि ज्ञेयं हेतवः प्रयुज्यन्ते हेत्वाभासाश्च परिह्रियन्ते इति, यच्च निग्रहस्थानपरिगणिता अपि हेत्वाभासाः पुनरुपदिश्यन्ते तद्वादे चोदनीया भविष्यन्तीत्याशयेन । . छलजातिनिग्रहस्थानानि जल्पवितण्डोपकरणानि तेषामवधृतस्वरूपाणां स्ववाक्ये परिवर्जनं क चिदवसरे प्रयोगः परप्रयुक्तानां च प्रतिसमाधानमित्यादि