________________
प्रमाणमकरणम्
ज्ञानस्य निःश्रेयसाधिगमहेतुत्वपरीक्षा
ननु षोडशपदार्थतत्त्वज्ञानस्य कथं निःश्रेयसाधिगमहेतुत्वमिति वक्तव्यम्, वेदप्रामाण्यसिद्ध्यर्थं चेदं शास्त्रमिति तावन्मात्रमेव व्युत्पाद्यतां किं षोडशपदार्थकन्थाग्रन्थनेन, उच्यते आत्मापवर्गपर्यन्तद्वादशविधप्रमेयज्ञानं तावदन्यज्ञानानौपयिकमेव साक्षादपवर्गसाधनमिति वक्ष्यामः, तत्वज्ञानान्मिथ्याज्ञाननिसे सति तन्मूलः संसारो निवर्त्तते इति प्रमेयं तावदवश्योपदेश्यम्, तस्य तु प्रमेयस्यात्मादेरपवर्ग साधनत्वाधिगम आगमैक निबन्धनः ।
तस्य प्रामाण्यनिर्णीतिरनुमाननिबन्धना । प्प्रोक्तत्वं च तल्लिङ्गमविनाभावि वक्ष्यते || प्रतिबन्धप्रहे तस्य प्रत्यक्षमुपयुज्यते । को ऽन्यस्सन्तरणे हेतुरनवस्थामहोदधेः ॥ आयुर्वेदादिवाक्येषु दृष्ट्वा प्रत्यक्षतः फलम् । वचः प्रामाणमाप्तोक्तमिति निर्णीयतां यतः ॥
उपमानं तु कचित्कर्मणि सोपयेोगमित्येवं चतुष्प्रकारमपि प्रमाणं प्रमेयवदुपदेष्टव्यम्, संशयादयस्तु पदार्था यथासम्भवं प्रमाणेषु प्रमेये चान्तर्भवन्तो Sपि न्यायप्रवृत्तिहेतुत्वात्पृथगुपदिश्यन्ते, न्यायश्च वेदप्रामाण्यप्रतिष्ठापनपूर्वकत्वेन पुरुषार्थोंपयोगित्वमुपयातीति दर्शितम् ।
तत्र नानुपलब्धे ऽर्थे न निर्णीते प्रवर्त्तते । किं तु संशयिते न्यायस्तदङ्गं तेन संशयः ॥ प्रयोजनमनुद्दिश्य न च न्यायं प्रयुब्जते । दृष्टान्तः पुनरेतस्य सम्बन्धग्रहणास्पदम् ।। सिद्धान्तो ऽपि धर्मप्रापणेनाश्रयासिद्धतामपोद्धरन्न्यायं प्रवर्त्तयति । ननु संशयपदेन न्यायविषयं सन्दिग्धं धर्मिणमभिदधता ऽऽश्रयासिद्धि रपोद्धृतैव, सत्यम्, कचितु विषये संशयमन्तरेणापि न्यायप्रवृत्तिदर्शयिष्यते इति संशयितैकविषयन्यायनियमाभावात्सिद्धान्तो ऽपि वक्तव्यः ।
न्यायाभिधाने ऽवयवाः परं प्रत्युपयेोगिनः । परार्थमनुमानं च तदाहुन्ययवादिनः ॥
"
ननु प्रतिज्ञोदाहरणाभ्यां तदभिधेयौ सिद्धान्तदृष्टान्तौ गम्येते एव किं पृथगुपादानेन यद्येवं हेत्वाख्येनावयवेन तदभिधेयसिद्धेरनुमानमपि पृथग् न वक्तव्यं स्यात् एवं भवतु किंनश्छिन्नम् मैवम् अभिधेये न्याये निरूपणीये तदभिधायिनामवयवानामवसर इति तदर्थः प्रथमं व्युत्पादनाहों भवतीतरथा ऽवयवमात्रोपदेश एव शास्त्रं समाप्येत ।
२ न्या०