________________
न्यायमञ्जर्याम् साधनोपलम्भजन्मा तत्वावबोधी निर्णयः, वीतरागवस्तुनिर्णयफलो वादः, वि. जिगीषुकथा पुरुषशक्तिपरीक्षणफला जल्पः, तद्विशेषो वितण्डा, अहेतवा हेतु. ववभासमाना हेत्वाभासाः, अर्थविकल्पैः वचनविघातश्छलम् , हेतुप्रतिबि. म्बनप्रायं प्रत्यवस्थानं जातिः, सत्यवस्त्वप्रतिभासः विपरीतप्रतिभासश्च निग्रहस्थानम् , तत्र वक्ष्यमाणलक्षणसूत्रनिर्देशानुसारेण कानि चिदेकवचनान्तानि पदानि बिग्रहे ग्रहीतव्यानि प्रमाणावयवहेत्वाभासानां बहुवचनेन विप्रहो दर्शयितव्यः शेषाणामेकवचनेन लक्षणसूत्रेषु तथा निर्देशात् , एवं चोद्देशलक्षण योरेकविषयता नितरां दर्शिता भवति, इतरेतरयोगे द्वन्द्वः समासः ।
तत्त्वज्ञानपदे समासविचार:___ प्रमाणादीनां तत्त्वमिति सम्बन्धमात्रे षष्ठी, तस्वस्य ज्ञानं निःश्रेयसस्याधिगम इति कर्मणि षष्ठयो, तत्त्वस्य ज्ञायमानत्वेन निःश्रेयसस्य चाधिगम्यमा. नत्वेन कर्मत्वात् ,
नन्वेवं व्याख्यायमाने तत्त्वप्रामाणादिपदसापेक्षत्वेनासमर्थत्वादसमासः प्राप्नोति सापेक्षमसमथं भवतीत्याहुः, न चेदं प्रधानं सापेक्षं येन भवति वै प्रधानस्य सापेक्षस्यापि समास इति राजपुरुषः शोभन इति वत्समस्येत उत्तरप. दार्थप्रधानत्वात् षष्ठीतत्पुरुषस्य ज्ञानमेवात्र प्रधानं तस्वमुपसर्जनम् , अतश्च ऋद्धस्य राज्ञः पुरुष इतिवदसमास एव युक्तः ।
ननु ज्ञानमपि प्रमाणादिसापेक्षं भवत्येव तद्विषयं हि तदिति, न तत्त्वपदेनास्य निराकाङ्क्षीकृतत्त्वात् , तत्त्वस्य ज्ञानमिति तदिदानी त. रखमेव सापेक्षं वर्तते कस्य तत्त्वमिति तस्मात्तस्वस्योपसर्जनस्य सतः सापेक्षत्वादसमास एवेत्येवमभिशङ्कमानाः के चन तत्त्वं च तज्ज्ञानं चेति कर्मधारयं व्याचचक्षिरे तत्पुनरयुक्तम् , ज्ञानस्य स्वतस्तत्त्वातत्त्वविभागाभावात् , विषयकृतो हि ज्ञानानां तथाभावो ऽतथाभावो वा तदेत्तत्त्वविषयज्ञानं भवति न स्वतस्तत्त्वस्वभावम् , किं पुनरिदं तत्त्वं नाम सतो ऽसतो वा वस्तुनः प्रमाणपरिनिश्चितस्वरूपं शब्दप्रवृत्तिनिमित्तं तदित्युच्यते, तस्य भावस्तत्त्वमिति तच्च ज्ञानेन निश्चीयते, तत्परिच्छिन्दज्ज्ञानं तत्त्वज्ञानमित्युच्यते, ज्ञानस्यापि तद्रूपं ज्ञानान्तरपरिच्छेद्यमेव भवति, निर्णेयतत्त्वाच्च प्रमाणादय इति व्यतिरेकनिर्देश एव युक्तः, न चासमासप्रसङ्गमात्रादन्यथा वर्णनमुचितम् , ईदृशानां समासानां सामर्थ्यानपायेन बहुशा दृष्टत्वाद् देवदत्तस्य गुरुकुलमिति, उपसर्जनं नोपसर्जनमिति न कारणमेतत्समासे विग्रहवाक्यसमानार्थतया समासो भवति सा चेह विद्यते एव, वैयाकरणा अपि ईशि पदानि समस्यन्त्येव, अथ शब्दानुशासनं केषां शब्दानां लौकिकानां वैदिकानां चेति, तस्माद्यथाभाष्यमेव षष्ठी. त्रयव्याख्यानमनवद्यम् ।