________________
प्रमाणप्रकरणम्
आत्तों हि भिषजं पृष्वा तदुक्तमनुतिष्ठति । . तस्मिन्त्सविचिकित्सस्तु व्याधेराधिक्यमाप्नुयात् ॥ तेनादिवाक्याद्विज्ञाय साभिधेयं प्रयोजनम् ।
तत्सम्भावनया कार्यस्तच्छास्त्रश्रवणादरः ।। यैरप्यादिवाक्यमित्थं व्याख्यायते किलानन्वितपदार्थकं वाक्यमनुपादेयं दशदाडिमादिवाक्यवत् , अन्वितपदार्थकमपि निष्प्रयोजनमनुपादेयमेव सदसर द्वायसदशनविमर्शवाक्यमिव, तदिहोपादेयताव्यापकप्रयोजनाद्यनुपलम्भादनाद. रणीयत्वमिति व्यापकानुपलब्ध्या प्रत्यवतिष्ठमानः प्रयोजनाद्यभिधायिनाऽऽदि. वाक्येन निवृत्ताशङ्कः क्रियते इति तैरपि प्रयोजनप्रतिपादनमेवादिवाक्यस्यार्थ इत्युक्तं भवति, तत्प्रतिपादनेनैव व्यापकानुपलब्धिपरिहारादाशङ्का निवारिता भवति इति,
यदपि प्रवृत्तिहेतोरर्थसंशयस्य तर्कापरनाम्न औचित्यस्य वा समुत्पाद. नमादिवाक्येन क्रियते इति के चिदाचक्षते तदपि प्रयोजनाभिधानद्वारकमेव, प्रयोजनविषयो हि संशयो वा सम्भावनाप्रत्ययो वा प्रवृत्त्यङ्गभूतस्तेनोत्पादनीय इति तदुत्पत्तौ प्रयोजनाभिधानमेवादिवाक्यस्य व्यापारः संशयस्तु वस्तुवृत्तोपनत एव पुरुषवचसां द्वैविध्यदर्शनात् , शौचसमाचारसाधुतादिना तु तस्मिन् सम्भावनाप्रत्ययो ऽपि लोकस्य भवतीति, तस्मात्प्रयोजनप्रतिपादनार्थमेवादिवा. क्यमिति सूक्तम् ।
यञ्च श्रोतृप्रवृत्त्यङ्गं तद्वक्तुं युक्तमादितः ।
न च प्रयोजनज्ञानादन्यदस्ति प्रवर्तकम् ॥ अभिधेयकथनमपि तत्साध्यप्रयोजनोपपादनाय श्रोतृबुद्धिसमाधानाय च कर्तव्यमेव ।
अर्थाक्षिप्तस्तु सम्बन्धः फलशास्त्राभिधेयगः ।
तन्निर्देशेन सिद्धत्वान्न स्वकण्ठेन कथ्यते ।। अभिधेयस्य शास्त्रस्य वाच्यवाचकभावलक्षणः सम्बन्धः शास्त्रार्थस्य नि:श्रेयसस्य च साध्यसाधनभावः सम्बन्धः तदाश्रयनिर्देशादेव सिद्धः,
पदार्थोद्देशःअभिधेयास्तु प्रमाणादयो निग्रहस्थानपर्यन्ताः षोडश पदार्थाः प्रथमसूत्रे नि. दिष्टास्तेषां स्वरूपमुपरिष्टाद्वक्ष्यते, अर्थपरिच्छित्तिसाधनानि प्रत्यक्षादीनि प्रमाणानि, तत्परिच्छेद्यमात्मादि, नानार्थावमर्शः संशयः, हिताहितप्राप्तिपरिहारौ तत्सा. धनं च प्रयोजनम् , हेतोः प्रतिबन्धावधारणं दृष्टान्तः, प्रमाणतो ऽभ्युपगम्यमानः सामान्यविशेषवानर्थः सिद्धान्तः, परार्थानुमानवाक्यैकदेशभूताः प्रतिज्ञादयोऽव. यवाः, सन्दिग्धेर्थे ऽन्यतरपक्षानुकूलकारणदर्शनात्तस्मिन्सम्भावनाप्रत्ययस्तर्कः,