________________
न्यायमञ्जर्याम् जपवितण्डाहत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निः श्रेयसाधिगमः ॥१॥
आदिवाक्यारम्भाक्षेपसमाधानेननु किमयों ऽयमादिवाक्यारम्भः, को ऽयं प्रश्न:, शास्त्रं चेदारम्भणीयं क्रमवृत्तित्वाद्वाचः प्रथममवश्यं किमपि वाक्यं प्रयोक्तव्यं न ह्यादिवाक्यमकृत्वा द्वितीयादिवाक्यप्रणयनमुपपद्यते इति प्रन्थकरणमेवाघटमानं स्यात् , आहन खल्वेवं न जाने किं तु यदेव शास्त्रे व्युत्पाद्यत्वेन स्थितं तदेव व्युत्पाद्यतां किमादौ तदभिधेयप्रयोजनकीर्तनेन, उच्यते--
आदिवाक्यं प्रयोक्तव्यमभिधेयप्रयोजने । प्रतिपादयितुं श्रोतृप्रवाहोत्साहसिद्धये ॥ अभिधेयफलज्ञानविरहास्तमितोद्यमाः।
श्रोतुमल्पमपि प्रन्थमाद्रियन्ते न सूरयः॥ को हि नाम विद्वानविदितविषये निष्प्रयोजने च कर्मणि प्रवर्त्तते, आह च
भट्टः
सर्वस्यैव हि शास्त्रस्य कर्मणो वा ऽपि कस्य चित् ।
यावत्प्रयोजनं नोक्तं सावत्तत्केन गृह्यत इति(१)। ननु प्रयोजनपरिज्ञानमादौ श्रोतृणां कुतस्त्यमिति चिन्त्यताम् , किमस्मादेव वाक्यादुत युक्तितः वाक्यं तावदनिश्चितप्रामाण्यं कथं प्रयोजननिश्चयाय प्रभ. वति संशयादा प्रवृत्तो वेदार्थे ऽपि तथैव स्यादिति शास्त्रमनारब्धव्यं स्यात् , युक्तितः प्रयोजनावगमः शास्त्रे सर्वस्मिन्नधीते सति सम्भवति नेतरथेति तदवगमविकायां प्रवृत्तावितरेतराश्रयः शास्त्राधिग़मनात् प्रयोजनपरिज्ञानं प्रयोजनपरिज्ञानाथ शास्त्रश्रवणे प्रवृत्तिः, उच्यते आदिवाक्यादेव श्रोतुः शास्त्रप्रयोज. नपरिज्ञानमर्थसंशयाच्च श्रवणे प्रवृत्तिः।
वेदे ह्यसिद्धप्रामाण्ये महाक्लेशेषु कर्मसु । नानर्थशङ्कया युक्तमनुष्ठानप्रवर्त्तनम् ।। बहुवित्तव्ययायासवियोगसुगमे ऽध्वनि । प्रवृत्तिरुचितादारफले लघुपरिश्रमे । शृण्वन्त एव जानन्ति सन्तः कतिपयैदिनः । किमेतत्सफलं शास्त्रमुत मन्दप्रयोजनम् ।। सूक्ष्मक्षिका तु यद्यत्र क्रियते प्रथमोद्यमे ।
असो सकलकर्तव्यविप्रलोपाय कल्पते ।। (१)श्लो. वा. श्लो. १२ ।