________________
प्रेमणिप्रकरणम्
न प्रमाणविद्येति, न च मीमांसकाः सम्यग् वेदप्रामाण्यरक्षणक्षमां सरणिमवले - कयितुं कुशलाः, कुतर्ककण्टकनिक र निरुद्धसश्चरमार्गाभास परिभ्रान्ताः खलु ते इति वक्ष्यामः, न हि प्रामाणान्तरसम्वाददाढर्यमन्तरेण प्रत्यक्षादीन्यपि प्रमाणभावं भजन्ते किमुत तदधीनवृत्तिरेष शब्दः, शब्दस्य हि समयोपकृतस्य बोधकत्वमात्रं स्वाधीनमर्थतथात्वेतरत्वपरिनिश्चये तु पुरुषमुखप्रेक्षित्वमस्यापरिहार्यम्, तस्मादाप्तोक्तत्वादेव शब्दः प्रमाणीभवति नान्यथेत्येतच्चास्मिन्नेव शास्त्रे व्युत्पा• दयिष्यते ।
नवक्षपादात्पूर्वं कुतो वेदप्रामाण्यनिश्चय आसीत्, (१) अत्यल्पमिदमु*यते, जैमिनेः पूर्व केन वेदार्थों व्याख्यातः पाणिनेः पूर्व केन पदानि व्युत्पादतानि पिङ्गालात्पूर्व केनच्छन्दांसि रचितानि, आदिसर्गात्प्रभृति वेदवदिमा विद्याः प्रवृत्ताः, संक्षेपविस्तरविवक्षया तु तांस्तांस्तत्र कर्त्तृनाचक्षते ।
"
ननु वेदप्रामाण्यं निर्विचारसिद्धमेव साधवो मन्यन्ते इति किमत्र विचारयत्नेन, न संशयविपर्यासनिरासार्थत्वात् यस्य हि वेदप्रामाण्ये संशयाना वि. पर्यस्ता वा मतिस्तं प्रति शास्त्रारम्भः, न हि विदितवेदार्थ प्रति मीमांसा प्रस्तूयते, तदुक्तम्- - नान्यतो वेदविद्भ्यश्च सूत्रवृत्ति क्रियेष्यते इति (२) ।
भवति च चतुष्प्रकारः पुरुषः अज्ञः सन्दिग्धो विपर्यस्तो निश्चितमतिश्वेति तत्र निश्चितमतिरेष मुनिरमुना शास्त्रेणाज्ञस्य ज्ञानमुपजनयति संशयानस्य संशयमुपहन्ति विपर्यस्यतो विपर्यासं व्युदस्यतीति तान्प्रति युक्तः
,
शास्त्रारम्भः ।
कुतः पुनरस्यर्षेरपि निश्चितमतित्वं जातम् उच्यते, भवति तावदेष निश्चितमतिः, स तु तपः प्रभावाद्वा देवताराधनाद्वा शास्त्रान्तराभ्यासाद्वाभवतु किमनेन तत्रैतत् स्यात्तत एव शास्त्रान्तरादस्मदादेरपि तत्त्वाधिगमो भविष्यति इति किमक्षपादप्रणीतेन शास्त्रेण, परिहृतमेतत् संक्षेपविस्तर विवक्षया शास्त्र प्रणयनस्य (३) साफल्यात्, विचित्रचेतसश्च भवन्ति पुरुषा इत्युक्तम्, येषामित एवाज्ञानसंशयविपर्यया विनिवर्त्तन्ते तान्प्रत्येतत्प्रणयनं सफलमितीदं प्रणीतवानाचार्य: ।
तत्रेदमादिसूत्रम्-
"
प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयव तर्कनिर्णयवाद
( १ ) अत्यल्पस्येदमुच्यत इति मूले ।
( २ ) श्लो. वा. लो. ४३ ।
( ३ ) शास्त्रप्रणयनं यस्य साफल्यादिति मुळे पाटः ।