________________
न्यायमभयाम्
नत्वं नाम चतुर्दशानां शास्त्राणां पुरुषार्थसाधनज्ञानोपायत्वमेवोच्यते, वेदनं विद्या तच्च न घटादिवेदनमपि तु पुरुषार्थसाधनवेदनं विद्यायाः स्थानमाश्रय उपाय इत्यर्थः, तच्च पुरुषार्थसाधनपरिज्ञानोपायत्वं कस्य चित्साक्षात्कारेण कस्य चिदुपायद्वारेणेति तानीमानि चतुर्दश विद्यास्थानानीत्याचक्षते, यथोक्तम्--
पुराणतकमीमांसाधर्मशास्त्राङ्गमिश्रिताः।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दशेति(१)॥ अन्यत्राप्युक्तम् -
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः। पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दशेति ॥ चतुर्दशविद्यासु गोतमप्राणीतन्यायस्यैव परिगणनम्पूर्वत्र तर्कशब्देनोपात्तमुत्तरत्र च न्यायविस्तरशब्देनैतदेव शास्त्रमुच्यते, न्यायस्तर्कोऽनुमानं सो ऽस्मिन्नेव व्युत्पाद्यते, यतः सांख्याहतानां तावत्क्षपणकानां कीदृशमनुमानोपदेशकौशलं कियदेव तत्तर्केण वेदप्रामामाण्यं रक्ष्यते इति नासाविह गणनाहः, बौद्धास्तु यद्यपि अनुमानमार्गावगाहननैपुण्याभिमा. नोधुरां कन्धरामुद्वहन्ति तथा ऽपि वेदविरुद्धत्वात्तत्तस्य कथं वेदादिविद्यास्थानस्य मध्ये पाठः, अनुमानकौशलमपि कीदृशं शाक्यानामिति पदे पदे दर्श यिष्यामः, चावोंकास्तु वराकाः प्रतिक्षेप्तव्या एवेति कः क्षुद्रतकस्य तदीयस्येह गणनावसरः, ___ वैशेषिकाः पुनरस्मदनुयायिन एवेत्येवमस्यां जनतासु प्रसिद्धायामपि षटतामिदमेव तर्कन्यायविस्तरशब्दाभ्यां शास्त्रमुक्तम् ,
इयमेवान्वीक्षिकी चतसृणां विद्यानां मध्ये न्यायविद्या गण्यते आन्वी. क्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वतीति, प्रत्यक्षागमाभ्यामीक्षितस्यान्वीक्षणमन्वीक्षा अनुमानमित्यर्थः, तद्व्युत्पादकं शास्त्रमान्वीक्षिकम् ।
ननु चतनश्चेद् विद्याः कथं चतुदर्श दर्शिताः, नैष विरोधः, वार्तादण्डनीत्योद्दष्टेकप्रयोजनत्वेन सर्वपुरुषार्थोपदेशविद्यावगें गणनानईत्वात्त्रय्या. न्वीचिक्योश्च तत्र निर्देशाच्चतुर्दशैव विद्याः ।
न्यायशास्त्रारम्भसमर्थनम् - ननु वेदप्रामाण्यनिर्णयप्रयोजनश्चेन्न्यायविस्तरः कृतमनेन मीमांसात एव त. सिद्धः, तत्र ह्यर्थविचारवत्प्रामाण्यविचारोऽपि कृत एव, सत्यम् , स त्वानुषङ्गि. कः तत्र मुख्यस्त्वर्थविचार एव, पृथक्प्रस्थाना हीमा विद्याः सा च वाक्यार्थविद्या
(१) या, स्मृ. अ. १ श्लो. ३ ।