________________
प्रमाणप्रकरणम्
जुहुयात्स्वर्गकामः श्रात्मा ज्ञातव्य इत्यादिश्रुतेः, स्मृतिशास्त्रमपि मन्वाद्युपनिबद्धमष्टकाशिखाकर्मप्रपाप्रवर्तनादिपुरुषार्थसाधनोपदेश्येव दृश्यते, अश्रूयमाणफलानामपि कर्मणां फलवत्ता विधिवृत्तपरीक्षायां वक्ष्यते, सर्वो हि शास्त्रार्थः पुरुषार्थपर्यवसायी न स्वरूपनिष्ठ इति, इतिहासपुराणाभ्यामपि उपाख्यानादिवर्णनेन वैदिक एवार्थः प्रायेण प्रतन्यते, यथोक्तम् -
इतिहासपुराणाभ्यां(१) वेदं समुपद्व्हयेत् ।
बिभेत्यल्पश्रुतादो मामयं प्रतरिष्यतीति(२) ।। तदेवं वेदपुराणधर्मशास्त्राणां स्वत एव पुरुषार्थसाधनोपदेशस्वभावत्वाविद्यास्थानत्वम्, अङ्गानि व्याकरणज्योतिःशिक्षाछन्दोनिरुक्तानि वेदार्थोपयोगिः पदादिव्युत्पादनद्वारेण विद्यास्थानत्वं प्रतिपद्यन्ते, तेषामङ्गसमाख्यैव तदनुगामितां प्रकटयति, विचारमन्तरेणाव्यवस्थितवेदवाक्यार्थानवधारणान्मीमांसा वेदवाक्यार्थविचारात्मिका वेदाकरस्येतिकर्तव्यतारूपमनुविभ्रतीति विद्यास्थानतां प्रतिपद्यते, तथा च भट्टः--
धम प्रमीयमाणे तु वैदेन करणात्मना।
इतिकर्तव्यतामागं मीमांसा पूरयिष्यति ।। अत एव सप्तममङ्गमिति न गण्यते मीमांसा प्रत्यासन्नत्वेन वेदैकदेशभूत. त्वात् , विचारसहायो हि शब्दः स्वाथै मिरकाक्षं प्रबोधयितुं क्षमः, न्यायविस्तरस्तु मूलस्तम्भभूतः सर्वविद्यानां वेदप्रामाण्यहेतुत्वात् , वेदेषु हि तार्किकरचितकुतर्कविप्लावितप्रामाण्येषु शिथिलितास्थाः कथमिव बहुवित्तव्ययायासादिसाध्यं वेदार्थानुष्ठानमाद्रियेरन् साधवः, किं वा तदानीं स्वामिनि परिम्लाने तदनुयायिना मीमांसादिविद्यास्थानपरिजनेन कृत्यमिसि, तस्मादशेषदुष्टतार्किकोपमर्दद्वारकदृढतरवेदप्रामाण्यप्रत्ययाधायिन्यायोपदेशक्षममक्षपादोपदिष्टमिदं न्यायविस्तराख्यं शास्त्रं प्रतिष्ठाननिबन्धनमिति परं विद्यास्थानम् , विद्यास्था
प्पादकत्वलाभायज्ञशरीमुपजीव्यतदपेक्षितयाः स्तोत्रशास्त्ररूपावयवयोरितरेण वेदद्वयेन. पूरणा सामवेदापेक्षया यजुष एव प्रायम्यम् इति । व्याकरणमहाभाष्यकृतस्तु अथर्वय. अक्सामवेदा इति वेदानां क्रममातिष्ठन्ते तत्रबीजं तु महाभाष्यटिप्पणे वालशानिच. रणनिरूपितमिति तत एवावगन्तव्यम् । न्यायमक्षरीकारा अपि चतुर्थाहिके क्रमनिर्दे. काबीजं वक्ष्यन्ति इति तत एव द्रष्टव्यम् ।
(१) इतिहासपुराणाभ्यामित्यत्राल्पाच्तरत्वात्पुराणशब्दस्य पूर्वनिपाते प्राप्ते इतिहासाब्दस्य पूर्वनिपातकरणं पुराणापेक्षयेतिहासल्याभ्यर्दितत्वसूचकं तेन यत्र धर्मनिर्णये इतिहासपुराणयोविरोधस्तत्रेतिहासस्यौव प्रावल्यमित्यस्मद्गुरुचरणाः ।
(२) म. भा, आ. प. अ. १ श्लो. २६६ ।