SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ न्यायममर्याम् तदेकदेशलेशे तु कृतोऽयं विवृतिश्रमः । तमेव चानुगृहन्तु सन्तः प्रणयवत्सलाः ॥ १४ ॥ असङ्घयैरपि नात्मीयैरल्पैरपि परस्थितैः। गुणैः सन्तः प्रहृष्यन्ति चित्रमेषां विचेष्टितम् ॥ १५ ॥ परमार्थ(१)भावनाक्रमसमुन्मिषत्पुलकलान्छितकपोलम् । स्वकृतीः प्रकाशयन्तः पश्यन्ति सतां मुखं धन्याः ॥ १६ ॥ ___अदृष्टस्य स्वर्गादेः शास्त्रैकगम्यत्वम्इह प्रेक्षापूर्वकारिणः पुरुषार्थसम्पदमभिवाष्छन्तः तत्साधनाधिगमोपायमन्तरेण तदवाप्तिममन्यमानास्तदुपायावगतनिमित्तमेव प्रथममन्वेषन्ते, दृष्टादृष्टः भेदेन च तद्विविधः पुरुषार्थस्य पन्थाः, तस्य दृष्टे विषये रुचिः प्ररूढवृद्धव्यः वहारसिद्धान्वयव्यतिरेकाधिगतसाधनभावे भोजनादावनपेक्षितशास्त्रस्यैव भवति प्रवृत्तिः, न हि मलिनः स्नायात् बुभुक्षितो वाऽश्नीयादिति शास्त्रमुपयुज्यते, अदृष्टे तु स्वर्गापवर्गमात्रे मैसर्गिकमोहान्धतमसविलुप्तालोकस्य लोकस्य शास्त्र. मेव प्रकाशः, तदेव सकलसदुपायदर्शने दिव्यं चक्षुरस्मदादेर्न योगिनामिव योगसमाधिजज्ञानाद्युपायान्तरमपीति तस्मादस्मदादेः शास्त्रमेवाधिगन्तव्यम् । चतुर्दश विद्यास्थानानितञ्च चतुर्दशविधं यानि विद्वांसश्चतुर्दश विद्यास्थानान्याचक्षते, तत्र वेदा. श्चत्वारः प्रथमोऽथर्ववेदः(२) द्वितीय ऋग्वेदः तृतीयो यजुर्वेदः चतुर्थः सामवेदः, एते चत्वारो वेदाः साक्षादेव पुरुषार्थसाधनोपदेशस्वभावाः अग्निहोत्रं (१) पुस्तकद्वये ऽपि परमार्थदावनेति पुलकांछितेति च दृश्यते । परमाभाव. नेति पुलकलाञ्छितेति तु युक्तमिति तथैव निवेशितम् ( म० म• श्रीगङ्गाधरशाची,) (२) प्रथमोऽथर्ववेद इति । ननु 'ऋग्वेदं भगवोऽध्येमि यजुवेंदं सामवेदमाथर्वणं चतुर्थम्' इति छान्दोग्योपनिषदि (७१२) 'ऋग्वेदो यजुर्वेदः सामवेदोऽयनवेद: इति मुण्डकोपनिषदि (१२११५) 'ऋग्यजुः सामाथर्वाणश्चत्वारो वेदाः सानाः सशा. खाश्चत्वारः पादा भवन्ति' इति नृसिंहपूर्वतापन्यां च ऋग्वेदस्यैव प्राथम्यदर्शनादाथ. वणवेदस्य प्राथम्याभिधानं केनाभिप्रायेणेति चेदुच्यते ऋग्वेदादिसाध्यकर्मणामाधान. साध्याग्निसाध्यत्वादाधानस्य चार्थवणिककर्मसाध्यत्वादपजीव्यत्वादाथर्वनवेदस्य श्रौत क्रममुलध्यापि सर्वप्रथमं निर्देशः इति । नन्वस्त्वेवं तथापि ऋग्वेदानन्तरं सा. मवेद एव निर्दष्टव्यः 'तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे । छन्दांसि यज्ञिरे त. स्माद्यजुस्तस्मादजायत' इति श्रुतौ ऋग्वेदोत्पश्यनन्तरं सामवेदेोत्पत्तिकीर्तनादिति चे. दुच्यते 'मन्त्रा मननात छन्दांसि छादनायजुर्घजतेः' इति निरुक्ताबजुर्वेदस्य यज्ञनि
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy