________________
श्रीगणेशाय नमः । न्यायमञ्जरी। जयन्तभट्टकृता गौतमसूत्रवृत्तिः ।
नमः शाश्वतिकानन्दज्ञानेश्वर्यमयात्मने । सङ्कल्पसफलब्रह्मस्तम्भारम्भाय शम्भवे ॥ १॥ नमामि यामिनीन थलेखालकृतकुन्तलाम् । भवानी भवसन्तापनिर्वापणसुधानदीम् ॥२॥ सुरासुरशिरोरत्नमरीचिखचितामये । विघ्नान्धकारसूर्याय गणाधिपतये नमः ॥ ३ ॥ जयन्ति पुरजिहत्तसाधुवादपवित्रिताः । निदानं न्यायरत्नानामक्षपादमुनेगिरः ॥४॥ अक्षपादमताम्भोधिपरिमर्षरसोत्सुकाम् ।। विगाहन्तामिमां सन्तः प्रसरन्तीं सरस्वतीम् ॥५॥ नानागुणरसास्वादखिन्नाऽपि विदुषां मतिः । अलोकमात्रकेणेममनुगृहातु नः श्रमम् ॥६॥ न्यायौषधिवनेभ्योऽयमाहृतः परमो रसः । इदमान्वीक्षिकीक्षीरानवनीतमिवोद्धृतम् ॥ ७ ।। कुतो वा नूतनं वस्तु वयमुत्प्रेक्षितुं क्षमाः। वचोविन्यासवैचित्र्यमात्रमत्र विचार्यताम् ॥ ८॥ तैरैव कुसुमैः पूर्वमसकृत्कृतशेखराः । अपूर्वरचने दाम्नि दधत्येव कुतूहलम् ॥ ९॥ यद्वा निर्गुणमप्यर्थमभिनन्दन्ति साधवः । प्रणयिप्रार्थनामङ्गसंविधानामशिक्षिताः ॥ १० ॥ तदियं वाङ्मयोद्यानलीलाविहरणोद्यतैः । विदग्धैः क्रियतां कर्णेचिराय न्यायमरी ॥ ११ ॥ अक्षपादप्रणीतो हि विततो न्यायपादपः । सान्द्रामृतरसस्यन्दफलसन्दर्भनिर्भरः ॥ १२ ॥ वयं मृदुपरिस्पन्दारतदारोहणपङ्गवः ।। न तद्विभूतिप्राग्भारमालोकयितुमप्यलम् ॥ १३ ॥